ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्
- ४६५-४६७ ज्ञानिनो व्यवहारनियमाक्षेपः


आवर्तः ४६६ – अत्राक्षेपः

अत्राक्षेपः – कर्म हि अनेकप्रकारकम्। एकशरीरारम्भकं एकं कर्म। अनेकशरीरारम्भकं एकं कर्मेति। तत्र एकमेव कर्म यत्रानेकशरीराणि आरभते तत्र तादृशकर्मफलभूतप्रथमशरीर एव ज्ञानोत्पत्तौ सत्यामपि ज्ञानिनः शरीरान्तराण्यपि तत्फलभूतानि संभवेयुः। अन्तरेण भोगं प्रारब्धं कर्म नैव नश्यति।