ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्

- ४६४-५३८ ज्ञानिनो व्यवहारनियमाक्षेपः

आवर्तः ४६५ – ज्ञानिना समाधेः शरीरस्थितिनिर्वाहकाच्चातिरिक्ते कार्ये न प्रवृत्तियुक्तेन भाव्यमित्यत्राक्षेपः

ज्ञानिनोऽपि व्यवहारे नियमोऽस्तीति केचिद्वदन्ति। त्रिपुटीमात्रं दुःखनिदानमिति बुद्ध्वा तत्परित्यज्य ज्ञानी सदा समाधिनिष्ठो भवति। यदा व्यवहारः संभवति तदापि सोऽपि अशनायापिपासादिप्रयोज्यभिक्षाशनजलपानादिशरीरस्थितिकारणेष्वेव। नान्यत्र। न च स विस्मरति कदाचिदपि समाधिसुखम्। ततोऽधिकसुखाभावात्। दुःखहेतुत्वेन त्रिपुट्या उद्विजते। अतः समाध्यर्थमेव ज्ञानी भूयो भूयो यतते। यस्तु समाधिसुखं भ्रमतो बाह्यसुखासक्त्या तज्यति स श्वगर्दभप्रेतसम एव। गौडपादमाण्डूक्यकारिकायां समाधिप्रकारः सप्रपञ्चं प्रपञ्चितः। इत्थं ज्ञानी प्रपञ्चविक्षेपभ्रमं तुच्छीकृत्य सकलसुखसागरीभूतस्वरूपानन्दात्मनैवावतिष्ठते।

अष्टाङ्गमन्तरेण च समाधिसुखं न लभ्यते। समाधिसुखकारणत्वादष्टाङ्गस्य। असाधारणं कारणमन्तरेण च नैव कार्यमुत्पद्यते। अतस्तान्युच्यन्ते शृणु – (१-२) प्रत्येकं पञ्च पञ्च यमनियमौ। (३) अनेकविधान्यासनानि। (४) अनेकविधाः प्राणायामाः। (५) अनेकविधाः प्रत्याहाराः। (३) धारणा। (७) ध्यानम्। (८) समाधिः सविकल्पकः। सम्यगस्मिन्नष्टाङ्गे साधिते, सुकरः स्यान्निर्विकल्पकः समाधिः। नान्यथा। अतोऽवश्यमनुष्ठेयं तत्। इत्थं समाधेरवश्यानुष्ठेयतां श्रुत्वा भूताविष्टवदेतेऽन्यथा कथयन्ति’ इति मत्वा तत्त्वदृष्टिस्तूष्णीमनुक्त्वा किञ्चिदपि, जहास।

अस्यायं सिद्धान्तः – नैवास्ति नियमो ज्ञानिनः शरीरव्यवहारे। तस्य हि तदा व्यवहारहेतुभूताज्ञानतत्कार्यभेदभ्रमतज्जन्यरागद्वेषादयो न सन्ति। किन्तु प्रारब्धं कर्मैकमेवावशिष्टम्। तदेव च तदा तद्व्यवहारहेतुः। तादृशस्य च प्रारब्धकर्मणः पुरुषभेदेन नानाप्रकारत्वात् प्रारब्धकर्मजन्यज्ञानिव्यवहारोऽपि नानाप्रकार एव स्यात् न नियतः। अयमेव सिद्धान्तपक्षः।

*१ केचिदाहुः – ज्ञानिनो विहितकर्मानुष्ठाननियमाभावेऽपि, निषिद्धाचरणनिवृत्तौ नियमोऽस्त्येव। ज्ञानिनो हि प्रवृत्तिर्देहस्थितिहेतुभूतभिक्षाशनकौपीनाच्छादनमात्रग्रहण एव स्यात् नान्यत्र। यतः प्रागेव ज्ञानोत्पत्तेर्जिज्ञासादशायां मुमुक्षोः साधनचतुष्टयसत्त्वेन तीव्रविषयदोषदृष्टिवशाद्वैराग्यं सम्पन्नमेव। तादृग्वैराग्यं ज्ञानोत्पत्त्यनन्तरमपि दोषदृष्टिबलाद्विषयमिथ्यात्वनिश्चयवशाच्च दृढतरं वर्तते। अद्वितीयात्मापरोक्षज्ञानबलात् अनात्मपदार्थेषु तुच्छत्वनिश्चये सति पुनः पदार्थसत्यताबुद्धिर्न जायते। दोषदृष्टिप्राबल्ये हि सति नैव रागो जायते। प्रवृत्तिमात्रं च रागमूलकमेव। ज्ञानिनो रागासंभवान्नैवास्ति प्रवृत्तिः। शरीरजीवनार्थभोजनादिप्रवृत्तिस्तु विनैव रागं प्रारब्धकर्माधीनतयैव जायते।

*१. सन्यासिन एव ज्ञाने मुख्याधिकार इति वदन्तः शङ्करानन्दप्रभृतयः।

*२. “जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्” इत्याद्यालोचनं दोषदृष्टिः।

कर्म च *१ *२ *३ सञ्चितागामिप्रारब्धभेदात् त्रिविधम्।

*१. कुसूलस्थधान्यं पुनः पुनः पूर्यमाणं क्रमेण भुज्यमानं यथा, तथानेकजन्मार्जितमन्तःकरणोपहितसाक्ष्यज्ञानावरणशक्तिनिष्ठं कर्म सञ्चितम्।

*२. वर्तमानशरीरकृतमितः परं कालान्तरफलप्रदं कर्मागामि। कृषिस्थधान्यवत्।

*३. एतेष्वेव यत्किञ्चित्परिपक्वं सत् वर्तमानशरीरद्वारा सुखदुःखप्रदत्वेनाज्ञानविक्षेपशक्त्याश्रयि कर्म प्रारब्धम्। अन्नभूतधान्यवत्।

तत्र (१) अतीतानन्तशरीरानुष्ठितं सत् फलायानारब्धं कर्म सञ्चितम् (२) वर्तमानशरीरकृतं भविष्यत् कर्मागामि। (३) अतीतशरीरकृतं सत् वर्तमानशरीरहेतुभूतं (शरीरारम्भकं) कर्म प्रारब्धम्। तत्र च (१) सञ्चितं ज्ञानेन विनश्यति। (२) ज्ञानिन आत्मनि कर्तृत्वादिभ्रान्त्यभावान्नैवास्ति *४ आगामि। (३) यत्तु ज्ञानिनः शरीरं जनयित्वा तत्स्थितिहेतुभूतभिक्षाशनादौ प्रवर्तयति प्रारब्धं तत् अन्तरेण भोगं न क्षीयते।

*४. ‘असङ्गोऽहमकर्ताभोक्ता’ इति निश्चयबलाज्ज्ञानिनः कर्मलेपो न संभवति। । कर्तृत्वाद्यभिमानेन फलाभिलाषिण एव कर्मफलसुखादिसंबन्धः।

क्वचिच्च (अपरोक्षानुभूतिविवेकचूडामण्यादिग्रन्थेषु) सञ्चितागामिकर्माभावन्यायबलात् ज्ञानिनः प्रारब्धमपि नैव संभवति। अतो भोजनादिप्रवृत्तिरपि तस्य न युज्यते इति यदुच्यते। तत्रायमभिप्रायः – ज्ञानिनः स्वदृष्ट्या स्वात्मनि क्रियातत्फलसंबन्धो *५ नास्त्येव।

*५. “सर्वे वेदा यत्पदमामनन्ति”, “वेदैश्च सर्वैरहमेव वेद्यः” इत्यादिश्रुतिस्मृतिशतेभ्यः सर्वशास्त्राणां निर्विशेषाद्वितीयब्रह्मात्मचैतन्ये तात्पर्यमध्यवसितम्। एतज्ज्ञानाधिकारी त्वष्टाचत्वारिंशत्संस्कारसंस्कृतोऽनन्तकोटिजन्मसु परमेश्वरप्रसादमहिम्ना नितान्तनिर्मलीकृतान्तःकरणः कृतकृत्यो विषयेषु मलमूत्रनरकादिब्रह्मलोकान्तेषु सुविरक्तः। नास्य किञ्चिदप्यन्यदणुमात्रमज्ञानादिकमस्ति। कुतः प्रारब्धकल्पनावकाशः।

अज्ञानमेव न कुतो जगतः प्रसङ्गो
जीवेशदेशिकविकल्पकथातिदूरे।
एकान्तनिर्मलचिदेकरसस्वरूपं
ब्रह्मैव केवलमहं परिपूर्णमस्मि॥

वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः।
तोऽज्ञानं न चाज्ञानबाधकञ्च निरूपणे॥

तस्मादज्ञानमज्ञानकार्यञ्च सुरपुङ्गवाः। एकं ब्रह्मैव नैवान्यदिति मे निश्चिता मतिः॥

ननु क्रियाकारकफलरूपस्य प्रपञ्चस्य भेदमपि श्रुतिः प्रतिपादयति “आत्मन आकाशः सम्भूतः”, “ज्योतिष्टोमेन स्वर्गकामो यजेत” इत्यादिना। तत्कथं सर्वस्य ब्रह्मात्मत्वमिति चेत्। अत्रोच्यते।

साक्षादर्थस्वभावेन श्रुतिः सेयं प्रवर्तते।
श्रोतुश्चित्तविपाकेन विषण्णा विवशा श्रुतिः॥ इति।

“ऐतदात्म्यमिदं सर्वम्” इत्येषा श्रुतिरर्थस्वभावेन परमार्थस्वाभाव्येन न साक्षाद्विद्यमानमेवार्थं प्रतिपादयितुं प्रवृत्ता। ईदृग्विधस्यार्थस्यासंस्कृतचित्तैर्दुरधिगमत्वात्। तच्चित्तपरिपाकानुसारेण भेदश्रुतिर्मायामयव्यवहारसिद्धं भेदमनुवदन्ती साध्यसाधनफलादिलक्षणं जगद्वैचित्र्यं प्रतिपादयति। न परमार्थत इत्यर्थः।

सोपानक्रमतो देवा मन्दं मन्दं हितं नृणाम्।
उपदिश्य विषण्णापि पुनः पक्वाधिकारिणः॥

ऐतदात्म्यमिदं सर्वमित्याह परमाद्वयम्।
जगज्जीवेश्वरत्वादिविचित्रविभवं विना॥

केवलं चित्सदानन्दब्रह्मात्मैक्यपरा श्रुतिः।
जगज्जीवेश्वरत्वादि सर्वं ब्रह्मैव केवलम्॥

इति स्वपूर्णताज्ञानं परमाद्वैतवेदनम्।
इतोऽन्यद्यत्परिज्ञानं तदज्ञानं न संशयः॥

विचारेणायमेवार्थस्त्वविचारेण नैव हि।
न कदाचिद्विशेषोऽस्तीत्येतज्ज्ञानं सुदुर्लभम्॥

सुदुर्लभं निर्विशेषब्रह्मात्मैक्यसाक्षात्कारस्य वर्णाश्रमधर्मपरितोषितपरमेश्वरप्रसादैकसमधिगम्यत्वादित्यर्थः। परमार्थसत्तैवैका श्रुतिसम्मता। तद्रीत्या मायायास्तुच्छत्वेन प्रारब्धकर्मादिकं न संभवति। अनिर्वचनीयप्रातिभासिकसत्ताभ्युपगमेऽपि मायायाः, प्रारब्धं नैव युज्यते। नादबिन्दूपनिषदि –

उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति।
तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते॥

देहादीनामसत्त्वात्तु यथा स्वप्ने विबोधतः।
कर्मजन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम्॥

तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित्।
स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः॥

अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः।
उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति॥

अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता।
यथा रज्जुं परित्यज्य सर्पं गृह्णाति वै भ्रमात्॥

तद्वत् सत्यमविज्ञाय जगत्पश्यति मूढधीः।
रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति॥

अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते।
देहस्यापि प्रपञ्चत्वात् प्रारब्धावस्थितिः कुतः॥
अज्ञानिजनबोधार्थं प्रारब्धमिति चोच्यते॥ इति।

अध्यात्मोपनिषदि ज्ञानोदयात् पुरारब्धं कर्म ज्ञानान्न नश्यति इति स्फुटतयावेद्यते।

अदत्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत्।
व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ॥

न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम्।
अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते॥

तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना।
प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः॥

देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः।
प्रारब्धकल्पनाप्यस्य देहस्य भ्रान्तिरेव हि॥

अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः।
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः॥

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि।
तिष्ठत्ययं कथं देह इति शङ्कावतो जडान्॥

समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः।
न तु देहादिसत्यत्वबोधनाय विपश्चिताम्॥

परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम्।
सद्धनं चिद्धनं नित्यमानन्दघनमव्ययम्॥

प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम्।
अहेयमनुपादेयमनाधेयमनाश्रयम्॥ इत्यादि।

एतदेवापरोक्षानुभूतिविवेकचूडामण्यादौ च प्रतिपादितम्। दृष्टिसृष्ट्येकजीववादयोः प्रपञ्चस्य स्वप्नमनोरथशुक्तिरजतादिवदज्ञातसत्त्वाभावात् ज्ञानेनाज्ञाननाशे समूलनाश एव सर्वस्य स्यात्। नाणुमात्रमवशिष्येत। द्वैतमात्रस्याज्ञानमूलत्वात्। तथा चोक्तं सिद्धान्तलेश”सर्वज्ञात्मगुरवस्तु विरोधिसाक्षात्कारोदये लेशतोऽप्यविद्यानुवृत्त्यसंभवात् जीवन्मुक्तिशास्त्रं श्रवणादिविध्यर्थवादमात्रम् शास्त्रस्य जीवन्मुक्तिप्रतिपादने प्रयोजनाभावात्। अतः कृनिदिध्यासनस्य ब्रह्मसाक्षात्कारोदयमात्रेण सविलासवासनाविद्यानिवृत्तिरित्यपि कञ्चित्पक्षमाहुरिति” (सू. भा. री. ३.८.३०)। कल्पितस्याज्ञातसत्त्वाभावात् दृष्ट्यदृष्ट।भ्यामुत्पत्तिलयावुक्तौ व्यावहारिकसत्त्वे त्वनास्था श्रुतेरित्यानन्दगिरिटीकायाम् रामानन्दीयायां तु स्वप्नवत्कल्पितस्याज्ञातसत्त्वाभावात् दर्शनं सृष्टिः। अदर्शनं लय इति दृष्टिसृष्टिपक्षः श्रुत्यभिप्रेत इति भाव इति। अतः प्रातिभासिकपक्षे अविद्यालेशस्य ज्ञानान्नाशानन्तरमवस्थित्यसंभवात्प्रारब्धकथानवकाश एव। व्यावहारिके प्रतिकर्मव्यवस्थायामेव सृष्ट्यादिश्रुतिजीवन्मुक्तिशास्त्रादिनिरूपणावकाशः। इत्थमधिकारित्रायाणामुत्तममध्यमाधमानामुपदेशभेदेन विविच्य विषयः श्रुतिस्मृतिपुराणेतिहासादिसर्वग्रन्थानां विज्ञेयो गुरुमुखात्। नान्यथा। इष्टसिध्यभावेऽपि पतनप्रसङ्गात्। तथा चोक्तम् –

माया ह्यचिन्त्यानिर्वाच्या जगज्जन्मादिकारिणी।
अदृश्या परमानर्थहेतुर्दुर्घटकारिणी॥

लौकिकास्तां हि मन्यन्ते वास्तवीं युक्तिशालिनः।
नरोऽनिर्वचनीयां तु तुच्छां श्रौतात्मवेदिनः॥

अतः श्रौतमतौ सत्यां मायायास्तुच्छतावशात्।
सुखेन ब्रह्मविज्ञानं सिद्ध्येदेव न संशयः॥
(गुरुज्ञानवा-च. प. ४. १५.५७.५९)

इत्थं लौकिकदृष्ट्यैतत् सर्वैरप्यनुभूयते।
युक्तिदृष्ट्या त्वनिर्वाच्या नासदासीदिति श्रुतेः॥ प. चि. १२८॥

नासदासीद्विभातत्वान्नो सदासीच्च बाधनात्।
विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः॥ १२९॥

तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा।
ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः॥ १३०॥

तस्मात् सर्वकर्मप्रतिषेधः प्रारब्धप्रतिषेधश्च स्वात्मनि क्रियते, न तु ज्ञानिनः शरीरे भोगमेव नोत्पादयतीति। यतो (१) ज्ञानिनः सञ्चितं कर्म ज्ञानेन नश्यति। (२) आगामिनस्तु कर्मणः संबन्ध एव नास्ति। (३) प्रारब्धं तु भोगत एव नश्यति नान्यथा। अयमेव च सूत्रकाराद्यभिप्रायः। तस्मात्प्रारब्धवशाच्छरीरपोषणादिनिर्वाहकक्रियादिषु ज्ञानिनः प्रवृत्तिः स्यादेव। अन्यत्र तु न स्यात्।