ॐ गुरुपरमात्मने नमः


- सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्

आवर्तः ४६४ – ज्ञानिनो व्यवहारनियमो नास्ति – पूर्वपीठिका

॥ संस्कृतविचारसागरे *१ जीवन्मुक्तिविदेहमुक्तिवर्णनं नाम सप्तमस्तरङ्गः॥

*१. जीवन्मुक्तिलक्षणं प्रपञ्चप्रतीतिपूर्वकं प्रत्यग्ब्रह्मचैतन्यनिष्ठत्वम्।

*२. विदेहमुक्तिलक्षणं प्रपञ्चप्रतीतिशून्यत्वे सति प्रत्यक्चैतन्यात्मना वर्तनम्।

आवर्तः ४६४ – ज्ञानिनो व्यवहारनियमो नास्ति – पूर्वपीठिका

उत्तममध्यमकनिष्ठानामधिकारिणां त्रयाणामित्थं गुरूपदेशश्रवणादिभिर्निःसंशयं ‘अयमात्मैव ब्रह्म’ इत्यत्युत्तमं ज्ञानं बभूव। त्रयाणामप्येतेषां गुरूपदेशे समानेऽपि ब्रह्मसाक्षात्कार उत्तमस्य तत्त्वदृष्टेरेवाभूत्। वृक्षस्य शुष्कानि पर्णानि पतितानि यथा वायुतस्तत उह्यन्ते तथा प्रारब्धकर्मशेषवशात् नाना कर्म कुर्वत् ज्ञानिनः शरीरमपि इतस्ततो नीयमानमिव प्रतिभाति। ज्ञानी हि कदाचिद्रथवाजिगजाद्यारूढः सन् वनारामादीन् पश्यति। कदाचिद्विनापि पादरक्षां सञ्चरति। तस्य शयनासनादिकमप्यव्यवस्थितमेव। तस्य कदाचिद्भोगभोजनाद्युत्तममेव भवति। कदाचिदनशन एव गिरिगुहायां वसञ्छिलातले शयानो रजनीमतिवाहयति। कदाचित्सहस्रशस्तं पुरुषाः प्रणमन्ति। कदाचिदयमुभयलोकभ्रष्ट इति कर्मिभिर्निन्द्यते। ये तावत्तं पूजयन्ति ते तस्य सुकृतं प्राप्नुवन्ति। ये तु तं दोषदृष्ट्या पश्यन्ति ते तस्य पापमश्नुवन्ति। इत्थं ज्ञानिदेहस्यानियतो व्यवहारः। तत्त्वविदो भ्रमसंशयादयो नैव संभवन्ति। कदाचित्कुत्रचिदपि नैवास्ति किञ्चित्कर्तव्यं तस्य। यतः समग्रतया तस्य भेदभ्रमभयादयो नष्टाः। सर्वोत्तमवेदप्रमाणजनितस्वप्रकाशाद्वितीयप्रत्यग्ब्रह्मात्मापरोक्षसाक्षात्कारवान्ह्यसौ।