ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४६२-४६३ पूर्वोक्तप्रश्नस्योत्तरम्


आवर्तः ४६३

मिथ्याभूतगुरुवेदान्तवाक्यादिभिरज्ञानतत्कार्यरूपमिथ्याभूताखिलजगत आत्यन्तिकनिवृत्तिः संभवत्येव। अगृधदेवस्य मम यथा निद्रावशात् संसारवनदुःखमभवत् तथा स्वात्मस्वरूपाज्ञानवशात् अहङ्कारादिद्वैतप्रपञ्चप्रतीतिरभवत् यथा मिथ्याभूतगुरुणा ग्रन्थेन च मिथ्यावनं नष्टमभवत्, तथैव मिथ्याभूतेन गुरुणा वेदान्तेन च मिथ्याभूतजगज्जीवेश्वरादि दृश्यं सर्वं द्वैतं नश्यति। महावाक्यानां लक्ष्यार्थज्ञानेन जिज्ञासुर्मुमुक्षुर्निरावरणः कृतकृत्यो भवति। निरावरणमायातीतसद्गुरुरेवाहम्।

॥ इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते संस्कृतविचारसागरे गुरुवेदान्तादिसर्वसाधनमिथ्यात्ववर्णनं नाम षष्ठस्तरङ्गः॥