ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्

- ४२०-४६३ पूर्वोक्तप्रश्नस्योत्तरम्

आवर्तः ४६२

गुरुरेवमाह – हे सोम्य, संसारवननाशोपायं तुभ्यं ब्रवीमि। शृणु सावधानमनाः। महावाक्यार्थविचार एव संसारवननाशोपायः। नास्त्युपायान्तरम्। महावाक्यार्थं सम्यग्विचार्य ‘अयमहमस्म्यगृधः’ इति निश्चित्य दृढतरमुद्धुष्य वदेति। शिष्योऽप्येवमेव महावाक्यार्थं सुविचार्य ‘अहमेवागृधः’ इत्युच्चैरघोषयत्। उत्तरक्षणे निद्रायाः प्रबुद्धो नेत्रे उन्मीलयति स्म। तत्क्षणमेव स्वप्ने दृष्टं संसारवनम्, गुरुः, ग्रन्थ इति सर्वं द्वैतं तिरोबभूव। संसारवनदुःखं सर्वं विनष्टम्। ‘अहमगृधः’ इति ज्ञात्वा सुखी बभूव।