ॐ गुरुपरमात्मने नमः

- ४६४-५३८ सप्तमतरङ्गः -- जीवन्मुक्तिविदेहमुक्तिवर्णनम्


आवर्तः ४६८ – इत्थं निवृत्तिप्रधान एव स्याज्ज्ञानिनो व्यवहारः

अत्रेयमाशङ्का – मनसो हि अत्यन्तचाञ्चल्यमेव स्वभावः तस्य च न निरालम्बनतया स्थितिः क्षणमात्रमपि संभवति। यत्किञ्चिदालम्बनमाश्रित्यैव मनसः स्थितिः स्यात्। अतो मनसो यत्किञ्चिदालम्बनप्राप्तये ज्ञानिनोऽपि प्रवृत्तिः स्यादिति।

तत्रेदं प्रतिवचनम् – असमाहितचित्तस्य समाध्यनुष्ठानशून्यस्य चित्तसमाधानाभावेन मनसश्चाञ्चल्येऽपि समाहितचित्तस्यानवरतं समाधिमनुतिष्ठतस्तन्न स्यात्। ज्ञानी तु समाधौ सदा स्थितो भवति। तस्मान्नैव स्यात् कदाचिदपि प्रवृत्तिर्ज्ञानिनः। इति।