ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४४३-४४९ महावाक्येषु लक्षणा


आवर्तः ४४५ – महावाक्ये वाच्यार्थनिरोधाल्लक्षणाया आश्रयणम्

सामवेदीयच्छान्दोग्योपनिषदि षष्ठाध्याये उद्दालकमुनिः स्वपुत्रं श्वेतकेतुं प्रति जगत्कारणीभूतमीश्वरं *३ प्रदर्श्य ‘तत्त्वमसि’ इत्युपदिदेश। अयं चास्य वाच्यार्थः ‘तत्’ जगदुत्पत्तिकर्ता सर्वशक्तिमान् सर्वज्ञत्वादिधर्मविशिष्ट ईश्वरः। ‘त्वम्’ अल्पशक्तिमान् किञ्चिज्ज्ञत्वादिधर्मविशिष्टो जीवः। ‘असि’ वर्तसे। इह ‘तत्त्वमसि’ इत्युक्त्या जीवेश्वरयोः *४ एकत्वम् वाच्यार्थः प्रतीयते। तच्च नोपपद्यते। तथा हि यः सर्वशक्तिमान् सोऽल्पशक्तिमान्, यः सर्वज्ञः स किञ्चिज्ज्ञः, यो व्यापकः स परिच्छिन्नः, यः स्वतन्त्रः स कर्माधीनः यः परोक्षः स प्रत्यक्षः, यः स्वाधीनमायः सोऽविद्यामोहितः, इत्येवं विरुद्धधर्मवतोरेकत्वोक्तिः ‘अग्निः शीतलः’ इतिवत् स्यात्। तस्माद्वाच्यार्थे विरोधसंभवात् लक्षणावृत्त्या लक्ष्यार्थमत्र विजानीहि। महावाक्ये, जहल्लक्षणाया अजहल्लक्षणायाश्चायुक्तत्वाद्भागत्यागलक्षणा बोध्या। भागत्यागलक्षणाश्रयेण विरोधः परिहृतो भवेत्।

*३. उद्दालकः स्वपुत्राय श्वेतकेतवे ‘तत्त्वमसि’ इति महावाक्यं नवकृत्व उपदिदेश।

*४. ‘तत्त्वमसि’ इत्यत्र तत्त्वंपदयोः सामानाधिकरण्यसंबन्धबलात् तत्त्वंपदवाच्ययोरेकत्वं विवृतं भवति।