-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४४३-४४९ महावाक्येषु लक्षणा

आवर्तः ४४६ – महावाक्ये जहल्लक्षणाया असंभवः
सर्ववेदान्तवेद्यं वस्तु साक्षिचैतन्यं ब्रह्मचैतन्यं च। तदुभयं त्वंपदवाच्यार्थे तत्पदवाच्यार्थे च प्रविष्टम्। यत्र जहती लक्षणा तत्र समग्रं वाच्यं परित्यज्य वाच्यार्थसंबन्ध्यन्योऽर्थो गृह्ये। तस्मान्महावाक्ये जहल्लक्षणास्वीकारे वाच्यार्थद्वयान्तर्गतं चैतन्यं विहाय तद्बहिर्भूतमन्यदेव नवं वस्तु किञ्चिद्विज्ञेयं भवेत्। चैतन्यादन्यत्तु असज्जडं दुःखरूपं च। तज्ज्ञानेन न पुरुषार्थसिद्धिः। तस्मान्न महावाक्ये जहल्लक्षणायाः संभवः।