ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४४३-४४९ महावाक्येषु लक्षणा


आवर्तः ४४४ – त्वंपदवाच्यार्थनिरूपणम्

ईश्वरधर्मविपरीतधर्मा यत्र वर्तन्ते तादृशजीवचेतनस्त्वंपदवाच्यार्थः।

अयमभिप्रायः – जीवोऽल्पशक्तिमान्, अल्पज्ञः, परिच्छिन्नः, अनीशः, कर्माधीनः, अविद्यामोहितः, बन्धमोक्षभाक्, नित्यापरोक्षः। स्वस्वरूपस्य कस्यापि परोक्षत्वाभावात् नित्यापरोक्ष एव जीवः। ईश्वरस्वरूपं तु यद्यपीश्वरस्य प्रत्यक्षं तथापि जीवानां न प्रत्यक्षम्। अत एवेश्वरः परोक्ष इत्युच्यते। जीवस्वरूपं तु जीवस्येश्वरस्य चेत्युभयोः प्रत्यक्षम्। अत एव जीवः *१ प्रत्यक्ष इत्युच्यते। पूर्वोक्ताल्पशक्तिमत्वादिधर्मविशिष्टो जीवचेतनः त्वंपदवाच्यः।

*२. जीवः स्वस्य निजं स्वरूपमहंपदलक्ष्यार्थं कूटस्थं यद्यपि न जानाति, तथाप्यहंपदवाच्यार्थभूतमन्तःकरणविशिष्टचैतन्यम्, अथवा स्थूलसूक्ष्मसङ्घातविशिष्टचैतन्यमहमिति जानाति। अतो जीवस्य विवेकात्प्रागपि विशिष्टात्मरूपस्वस्वरूपस्य प्रत्यक्षज्ञानं भवति।