-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४६३ महावाक्येषु लक्षणा

आवर्तः ४४३
“तत्त्वमसि” इति महावाक्ये लक्षणां प्रदर्शयितुं ‘तत्’ ‘त्वम्’ इति पदयोर्वाच्यार्थः प्रदर्श्यते।
तत्पदवाच्यार्थस्तावत् – सर्वशक्तिमान्, सर्वज्ञः, विभुः, ईश्वरः, स्वतन्त्रः, परोक्षः, मायी बन्धमोक्षरहितश्चेति सर्वशक्तिमत्वादिधर्मविशिष्टमीश्वरचैतन्यं *१ तत्पदवाच्यार्थः। ईश्वरे बन्धाभावात्तस्मिन् मोक्षोऽपि नास्ति। बद्धस्य हि मोक्षो युक्तः।
*१. सर्वसामर्थ्यविशिष्टः, सर्ववस्तुविषयकविज्ञानवान्, व्यापकः, सर्वप्रेरकः, कर्मावशः, जीवप्रत्यक्षस्याविषयः, स्वाधीनमायः, बन्धरहितत्वान्मोक्षरहितोऽपि। एतादृशेश्वरस्तत्पदवाच्यार्थः।