ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४४०-४४२ जहदजहद्भागत्यागलक्षणानां लक्षणम्


आवर्तः ४४२ – भागत्यागलक्षणा

पदस्य वाच्यार्थे अंशमेकं विहायांशान्तरग्रहणं भागत्यागलक्षणा। सैव जहदजहल्लक्षणेति चोच्यते। तथा हि, क्वचिद्देशे पूर्वदृष्टमेव पदार्थं पुनरपि देशान्तरे दृष्ट्वा ‘तदेवेदम्’ इति वदति। अत्र भागत्यागलक्षणा। अतीतकाले देशान्तरे स्थितं वस्तु ‘तत्’ इत्युच्यते। अतः अतीतकालविशिष्टं देशान्तरविशिष्टं च वस्तु ‘तत्’ इति पदस्य वाच्यार्थः। वर्तमानकाले समीपदेशे स्थितं वस्तु ‘इदम्’ इत्युच्यते। अतो वर्तमानकालविशिष्टं समीपदेशविशिष्टं च वस्तु ‘इदम्’ इति पदस्य वाच्यार्थः। “भूतकालविशिष्टं देशान्तरविशिष्टं च वस्त्वेव वर्तमानकालविशिष्टं समीपदेशविशिष्टं च भवति’ इत्येतत् ‘तदेवेदम्” इति वाचकसमुदायस्य वाच्यार्थः। तदेतन्न सङ्गच्छते। भूतकालस्य वर्तमानकालस्य च सामानाधिकरण्ये विरोधोऽस्ति। तथैव देशान्तरस्य समीपदेशस्य च सामानाधिकरण्येऽपि विरोधः। अतः पदद्वयवाच्यार्थान्तर्भूतदेशकालात्मकवाच्यांशं विहाय वस्तुमात्रे पदद्वयस्य *१ भागत्यागलक्षणा।

*१. ‘सोऽयम्’ इत्यत्र वाक्ये ‘सः’ ‘अयम्’ इत्यनयोः पदयोः परस्परसमानविभक्तिकत्वबलात् एकार्थकत्वरूपसामानाधिकरण्यसंबन्धोऽस्ति। तादृशसामानाधिकरण्यवशात् तयोः पदयोर्वाच्यार्थभूतयोः परोक्षापरोक्षवस्तुनोरेकत्वं प्रतीयते। तयोर्वाच्ययोर्विरोधिधर्मत्वेन न तदैक्यमुपपद्यते। तस्मादत्र लक्षणैव युक्ता। जहती अजहती वा लक्षणा नात्र संभवति। अतो भागत्यागलक्षणैवाश्रयणीया। तत्र ‘सः’ इति पदवाच्यं परोक्षत्वधर्मविशिष्टं वस्तु। ‘अयम्’ इति पदवाच्यमपरोक्षत्वधर्मविशिष्टं वस्तु। अनयोः परोक्षत्वापरोक्षत्वांशं विहायाविरुद्धांशभूतं वस्तुमात्रं गृह्यते। अत्र परोक्षत्वापरोक्षत्वांशयोर्वस्तुना सहाश्रयत्वसंबन्धः। वस्त्वात्मकांशस्य स्वस्वरूपेण तादात्म्यसंबन्धः। समस्तवाच्यांशानां वस्तुना सह आश्रयत्वतादात्म्यसंबन्धो यः सा लक्षणा। परस्परविरुद्धपरोक्षत्वापरोक्षत्वांशं विहाय अविरुद्धकेवलवस्तुरूपवाच्यांशो गृह्यते। अत एवेयं भागत्यागलक्षणा।

एवमेव ‘तत्त्वमसि’ इत्यादिमहावाक्यस्थजीवेश्वरवाचकपदद्वयस्य परस्परं समानविभक्तिकत्वबलादेकार्थप्रतिपादकत्वरूपसामानाधिकरण्यसंबन्धोऽस्ति। तद्बलात् ‘तत्’ ‘त्वम्’ इत्यादिपदवाच्यजीवेश्वरयोरेकत्वं प्रतीयते। तयोर्जीवेश्वरयोर्विरुद्धधर्मवत्त्वेनैकत्वासंभवात् लक्षणाङ्गीकार्या। तत्रापि पूर्वोक्तरीत्या जहदजहल्लक्षणयोरसंभवाद्भागत्यागलक्षणा ग्राह्या। तस्मात् सर्वमहावाक्येषु द्वयोर्द्वयोः पदयोर्वाच्यभूतजीवेश्वरयोः सर्वज्ञत्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टोपाधिरूपविरुद्धवाच्यांशं विहायाविरुद्धचेतनांशो ग्राह्यः। तत्र सर्वज्ञत्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टमायाविद्ययोश्चैतन्येन सहाधिष्ठानत्वसंबन्धोऽस्ति। चैतन्यस्य स्वेन तादात्म्यसंबन्धोऽस्ति। एतेषां सर्वेषां वाच्यानां चैतन्यांशेन सहाधिष्ठानत्वतादात्म्यसंबन्धो यः सा लक्षणा। विरोधिभूतवाच्यांशं विहायाविरोधिभूतचेतनांशो गृह्यते। तस्मादियं भागत्यागलक्षणेत्युच्यते।