- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४४०-४४२ जहदजहद्भागत्यागलक्षणानां लक्षणम्
आवर्तः ४४१ – अजहल्लक्षणा
वाच्यार्थेन सहैव वाच्यसंबन्धिज्ञानं येन पदेन जायते तत्पदे तस्मिन्नर्थे अजहल्लक्षणा ग्राह्या। ‘शोणो धावति’ इत्यत्र शोणपदस्य शोणवर्णविशिष्टाश्वे अजहल्लक्षणा। शोण इति वर्णः। तस्मिन् केवले वर्णे धावनं न संभवति। अतः शोणपदवाच्यार्थभूतरक्तवर्णविशिष्टाश्वे शोणपदस्य अजहल्लक्षणा। गुणगुणिनोस्तादात्म्यसंबन्ध उक्तः। शोणो वर्णविशेषत्वाद्गुणः। अतः शोणपदवाच्यरक्तगुणस्य स्वाश्रयेण गुणिनाश्वेन सह यस्तादात्म्यसंबन्धः सा लक्षणा। वाच्यार्थमपरित्यज्यैवाधिकांशस्य ग्रहणात् *१ अजहल्लक्षणा इयम्।
*१. अजहल्लक्षणाया उदाहरणान्तराणीमानि –
(१) ‘काकेभ्यो दधि रक्ष्यताम्’ इति वाक्ये ‘काकः’ इति पदस्य वाच्यार्थभूतकाकरूपपक्षिसकाशाद्दधिरक्षणमात्रे न वक्तुस्तात्पर्यम्। किन्तु काकवत् दध्युपघातकबिडालादिभ्योऽपि दधिरक्षणे वक्तुस्तात्पर्यम्। काकपदवाच्यकाकरूपपक्षिणां बिडालादिभिः सह दध्युपघातकत्वरूपं साजात्यमस्ति। सोऽयं साजात्यसंबन्ध एवात्र लक्षणा। अत्र वाच्यार्थ - काकमविहायाधिकतया बिडालादीनामपि ग्रहणात् अजहल्लक्षणा। दध्युपघातकाः सर्वेऽप्यत्र काकपदस्य लक्ष्यार्थाः।
(२) केदाररक्षणार्थं मञ्चे उपविशन् कश्चन पुरुषः पक्ष्यादिकं विद्रावयन्नाक्रोशति। तं दृष्ट्वा कश्चन वदन्ति ‘मञ्चः क्रोशति’ इति। तत्र ‘मञ्चः’ इति पदस्य मञ्चस्थपुरुषे अजहल्लक्षणा। मञ्चशब्दवाच्यार्थमञ्चे क्रोशनमसंभवि। अतो मञ्चपदस्य वाच्यार्थभूतखवया सह पुरुषेऽजहल्लक्षणा। ‘मञ्चस्थः पुरुषः क्रोशति’ इति ह्यस्य वाक्यस्य लक्ष्यार्थः। अत्र मञ्चपदवाच्यो यः खट्वारूपोऽर्थः तस्य तदाधेयपुरुषेण सहाधेयत्वसंबन्धोऽस्ति। सोऽयं संबन्ध एव लक्षणा। वाच्यार्थमविहायाधिकार्थग्रहणादजहल्लक्षणा।
(३) तथा ‘छत्रिणो यान्ति’ ‘यष्टीः प्रवेशय’ इत्यादिवाक्येषु छत्रिपदेन यष्टिपदेन च क्रमेण स्ववाच्यार्थभूतेन छत्रविशिष्टपुरुषेण यष्टिसमुदायेन च तत्संबन्धितया छत्रविहीनाः, यष्टिवाहकाश्च पुरुषा गृह्यन्ते। तस्मात् वाच्यार्थापरित्यागेनाधिकांशग्रहणात् अजहल्लक्षणा।
तथा च यत्र यत्र श्रुतिवाक्ये आत्मस्वरूपप्रतिपादकसत्त्वचित्त्वादिविशेषणानां मध्ये एकस्य वा द्वयोर्वा उपादानमस्ति तत्र तत्रानुक्तान्यपीतरसर्वविशेषणानि ग्राह्याणि। तस्मादेतादृशस्थले सिद्धान्तेऽप्यजहल्लक्षणोपयुज्यते।