- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२३-४४० जहदजहद्भागत्यागलक्षणानां लक्षणम्
आवर्तः ४४० – जहती लक्षणा
वाच्यार्थं समग्रं परित्यज्य तत्संबन्धिमात्रं यत्र प्रतीयते तत्र जहल्लक्षणा। तद्यथा- ‘गङ्गायां ग्रामः’ इति कश्चिदब्रवीत्। तत्र गङ्गापदस्य तीरे जहती लक्षणा। गङ्गापदस्य वाच्यार्थो गङ्गानदीप्रवाहः। प्रवाहे च ग्रामस्थितिर्न संभवति। तस्मात् प्रवाहरूपं वाच्यार्थं समग्रं विहाय तीरे गङ्गापदस्य जहल्लक्षणा। वाच्यार्थसंबन्धस्य लक्षणेति नाम। ‘गङ्गायां ग्रामः’ इत्यत्र गङ्गापदवाच्यार्थभूतप्रवाहस्य तीरेण सह संयोगसंबन्धोऽस्ति। स एव लक्षणा। अत्र वाच्यस्य समग्रतया परित्यक्तत्वात् *१ जहल्लक्षणा इयम्।
*१. जहल्लक्षणाया ललितमिदमुदाहरणम् – यस्य जामातुः पिता प्रवासी स जामाता श्वशुरगृहं विवाहार्थं पितृव्यादिबन्धुभिः सह जगाम। तत्र नूतनवस्त्रपरिधापनकाले ‘जामातुः पिता वस्त्रेणालङ्कियताम्’ इति कश्चनाह। एतद्वाक्यस्थपितृशब्दस्य शक्यार्थो यो जामातुर्जनकः स तत्रासन्निहित इति वक्ता जानाति। अत एतद्वाक्यगतपितृशब्देन जामातृजनकरूपमुख्यार्थबोधने वक्तुस्तात्पर्यं नास्ति। तस्मात् पितृशब्देन शक्यार्थभूतजनकं समग्रतया विहाय जनकसंबन्धिपितृसहोदरः पितृव्यो ग्राह्य इत्यस्मिन् वाक्ये पितृशब्दस्य जहती लक्षणा। अत्र पितृशब्दशक्यार्थभूतजामातृजनकस्य जामातृपितृव्येन सह सहोदरत्व - संबन्धोऽस्ति। स संबन्ध एव लक्षणा। तया लक्षणया बोध्यः पितृव्यरूपोऽर्थः पितृशब्दस्य लक्ष्यार्थः। अथवा ‘कूपश्चलति’ इति कश्चिद्रवीति। तत्र कूपशब्दस्य शक्यार्थभूतजलपूर्णावटे चलनक्रियाया असंभवात् तत्र वक्तुस्तात्पर्यं नास्ति। अतः कूपसंबन्धि। बलीवर्दद्वययुक्तचर्मभस्त्रिकायां वक्तुस्तात्पर्यम्। तस्मात् कूपशब्दस्य शक्यार्थं समग्रं परित्यज्य तत्संबन्धिबलीवर्दद्वययुक्तचर्मभस्त्रिकाग्रहणाज्जहल्लक्षणा। इत्थमेव ‘मार्गो गतः ‘ ‘चुल्ली ज्वलति’ इत्यादिवाक्येष्वपि जहल्लक्षणा बोध्या।
केनचिदाचार्येण सिद्धान्ते वक्ष्यमाणस्थलेऽपि जहल्लक्षणा प्रदर्शिता। तथा हि “सर्वं खल्विदं ब्रह्म” इति श्रुतौ सर्वस्य जगतो ब्रह्मरूपत्वमुच्यते। तत्रानित्यत्वदृश्यत्वविकारित्वजडत्वदुःखित्वादिविपरीतधर्मविशिष्टनामरूपात्मकं जगत् नित्यदृग्रूपाविकारिचेतनानन्दाद्यात्मकं ब्रह्मैवेत्युक्तिर्विरुध्यते। न हि तत्र श्रुतिवाक्यस्य तात्पर्यं संभवति। किन्तु बाधा सामानाधिकरण्यम्’ इति रीत्या नामरूपात्मक जगत् बाधित्वावशिष्टं तत्संबन्धिभूतं यदधिष्ठानचैतन्यं तदेव ब्रह्म इति श्रुतिवाक्यतात्पर्यम्। तस्मादत्र ‘सर्वम्’ इति पदस्य वाच्यभूतनामरूपात्मकं जगत् सर्वं विहाय तत्संबन्धि अस्तिभातिप्रियात्मकाधिष्ठानमेव ब्रह्मरूपत्वेन ग्राह्यम्। तस्माज्जहल्लक्षणा। अत्रारोपितनामरूपात्मकजगतः स्वाधिष्ठानचैतन्येन सह यस्तादात्म्यसंबन्धः सा लक्षणा। तया लक्षणया ज्ञाप्यमानमधिष्ठानचैतन्यं लक्ष्यार्थः।
मुख्यसिद्धान्ते त्वत्र भागत्यागलक्षणाङ्गीक्रियते। अन्तरेणाधिष्ठानज्ञानमारोपितप्रतीतिर्न जायेत। अधिष्ठानाव्यतिरेकेणैवारोपितं प्रतीयते। तस्मादस्तिभातिप्रियात्मकं नाम रूपमेव च सर्वशब्दस्य वा इदंशब्दस्य वा वाच्यार्थः। तत्र नामरूपांशं विहाय अवशिष्टास्तिभातिप्रियात्मकाधिष्ठानांशो यस्तदेव ब्रह्म। इत्थं “सर्वं खल्विदं ब्रह्म” इति वाक्यस्थे सर्वपदे इदंपदे वा भागत्यागलक्षणाङ्गीक्रियते।