- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४३२-४३७ भट्टमतखण्डनम्
- ४३५-४३७ उपादानकारणतत्कार्ययोर्भेदाभेदरूपतादात्म्यसंबन्धो दुर्घटः
आवर्तः ४३७ – सामर्थ्यरूपशक्तिवादिमतेऽपि न दोषः
तथा हि, मृत्पिण्डे घटोत्पादनसामर्थ्यरूपशक्तिरेवास्ति, न तु तैलोत्पादनसामर्थ्यरूपशक्तिः। तस्मान्मृत्पिण्डाद्घट एवोत्पद्यते, न तैलम्। तथा तिलेषु तैलोत्पादनसामर्थ्यरूपा शक्तिरेवास्ति न तु घटोत्पादनसामर्थ्यरूपा शक्तिः। तस्मात्तिलेभ्यः तैलमेवोत्पद्यते, न घटः। इत्थं उपादानकारणतत्कार्ययोरत्यन्तभेदाभ्युपगमे नास्ति दोषः। उपादानकारणतत्कार्ययोर्भट्टाभिमतो भेदाभेदस्त्वसङ्गत एव। भेदपक्षे अभेदपक्षे च भट्टोक्ता दोषास्तन्मते निश्चयं संभवेयुः। भट्टेन भेदसहिताभेदस्याभ्युपगमात् कारणकार्ययोस्तन्मते भेदश्च सिद्धः। अभेदश्च सिद्धः। भेदसद्भावाद्भेदपक्षोक्तदोषाणाम्, अभेदसद्भावादभेदपक्षोक्तदोषाणां च प्रसङ्गाद्भेदाभेदपक्षोऽसङ्गतः। चोरस्य चौर्यदोषो भवति। द्यूतकृतः द्यूतदोषो भवति। उभयानुष्ठातुस्तूभावपि दोषौ भवतः। एवं गुणगुण्यादीनां भेदाभेदाभ्युपगमेऽपि भेदपक्षोक्तदोषा अभेदपक्षोक्तदोषाश्चेत्युभयविधा दोषाः प्रसज्येरन्। सामर्थ्यरूपशक्तिवादिमते गुणगुणिनोः केवलभेदाभ्युपगमान्नास्ति दोषः। यतो गुणिनि गुणाश्रयत्वरूपा शक्तिरेवास्ति, नान्याश्रयत्वशक्तिः। तस्मात् भेदपक्षे यो दोषः प्रदर्शितो ‘घटरूपादयो यथा घटाद्भिन्नास्तथा पटादयोऽपि घटाद्भिन्ना वर्तन्ते। तथा सति घटरूपादय इव पटादयोऽपि घटाश्रिता भवितुमर्हन्ति। अथवा पटादिवत् घटरूपादयोऽपि घटानाश्रिता भवितुमर्हति’ इति सोऽयं सामर्थ्यरूपशक्त्यनभ्युपगमपक्षे एव स्यात्। सामर्थ्यरूपशक्तिवादिमते तु गुणगुणिनोः केवलभेदाभ्युपगमेऽपि यथा न दोषस्तथा प्रदर्शितः। गुणगुणिनोर्भेदाभेदाभ्युपगन्तृमते पूर्वोक्तदृष्टान्तरीत्या उभयपक्षदोषाः संभवेयुरेव। अपि च भेदाभेदयोर्विरुद्धत्वादसंभवदोषोऽपि स्यात्।
अपि च जातिव्यक्त्योः क्रियाक्रियावतोश्च केवलभेदोऽस्ति। तथापि व्यक्तौ जात्याश्रयत्वशक्तिरस्ति। क्रियावति च क्रियाश्रयत्वरूपशक्तिरस्ति। नान्याश्रयत्वशक्तिः। इत्थमुपादानकारणतत्कार्ययोस्तथा गुणगुण्यादीनां च भेदाभेदरूपतादात्म्यसंबन्धोऽसङ्गत एव। पूर्वोक्तस्थलेषु सर्वत्र भेदाभ्युपगमे भट्टेन प्रदर्शितं भेदपक्षदोषं सर्वं सामर्थ्यरूपा शक्तिः सिद्धान्ते कबलीकरोति।
वस्तुतस्तु वेदान्तसिद्धान्तेऽपि कार्यगुणजातिक्रियाणामुपादानकारणगुणिव्यक्तिक्रियावद्भिः सह नास्त्यत्यन्तभेदः। किन्तु तादात्म्यसंबन्ध एवाङ्गीक्रियते। तथापि भेदाभेदरूपतादात्म्यसंबन्धो नास्ति। किन्तु भेदाभेदविलक्षणानिर्वचनीयतादात्म्यसंबन्धोऽस्ति। भेदपक्षविलक्षणत्वादभेदपक्षस्य न तत्रत्यो दोषः। अभेदपक्षविलक्षणत्वाच्च भेदपक्षस्य न तत्रत्योऽपि दोषः। इत्थं *१ भेदाभेदविलक्षणानिर्वचनीयतादात्म्यसंबन्धो भवति। भेदाभेदरूपतादात्म्यसंबन्धस्त्वसङ्गत एव। अतो वाच्यवाचकयोर्भेदाभेदरूपतादात्म्यसंबन्ध एव शक्तिरिति भट्टानुयायिनां मतं न समीचीनम्। अपि तु शब्दस्य श्रवणमात्रेणार्थज्ञानोत्पादकत्वरूपं पदनिष्ठसामर्थ्यमेव पदशक्तिरिति सम्यक्। इत्थं शक्तिर्निरूपिता।
*१. केवलभेदस्थले तादात्म्यं न संभवति। यतोऽभेदज्ञानविषयस्यैव तादात्म्यमिति व्यपदेशः। तस्मात्केवलभेददशायामभेदप्रतीतिर्न स्यात्। अतस्तादात्म्यसंबन्धेऽभेदापेक्षास्ति। अपि च केवलाभेदस्थले संबन्धो न स्यात्, द्वयोः पदार्थयोरेव संबन्धसंभवात् स्वस्वरूपेण स्वस्य संबन्धासंभवाच्च। तस्मात् संबन्धसामान्ये भेदापेक्षास्ति। तादात्म्यस्य संबन्धरूपत्वाद्भेदापेक्षास्ति। इत्थं भेदाभेदौ विना तादात्म्यसंबन्धो न घटेत। भेदाभेदयोः सामानाधिकरण्यं त्वेकत्र विरुद्धम्।
तथापि कल्पितभेदविशिष्टवास्तवाभेदस्य तादात्म्यमिति नाम। मूले भेदाभेदविलक्षणं तादात्म्यमित्युक्तस्यायमभिप्रायः – (१) भेदविलक्षणमित्यनेन वास्तवभेदाभावोऽभिमतः। तेन कल्पितभेदविशिष्टमिति बोध्यते। (२) अभेदविलक्षणमित्यनेन कल्पिताभेदाभावोऽभिमतः। तेन वास्तवाभेद आवेदितः। एवञ्च सिद्धान्ते कल्पितभेदविशिष्टवास्तवाभेदस्तादात्म्यसंबन्ध इत्युच्यते। अमुमेवानिर्वचनीयतादात्म्यसंबन्धं वदन्ति।