ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४३२-४३७ भट्टमतखण्डनम्
- ४३५-४३७ उपादानकारणतत्कार्ययोर्भेदाभेदरूपतादात्म्यसंबन्धो दुर्घटः


आवर्तः ४३६ – अत्रोच्यते – नैयायिकमते तावन्नायं दोषः

तथा हि, नैयायिकः सकलपदार्थानामुत्पत्तौ प्रागभावमपि कारणमाह। घटोत्पत्तौ यथा दण्डचक्रकुलालादीनां कारणत्वं तथा घटप्रागभावस्यापि कारणत्वम्। एवं सकलपदार्थानामुत्पत्तौ तत्तत्पदार्थप्रागभावोऽपि कारणम्। घटप्रागभावो घटोपादानभूतमृतपिण्डे एव वर्तते। नान्यत्र। तैलप्रागभावस्तिलेष्वेव वर्तते नान्यत्र। एवं सकलपदार्थानां प्रागभावः स्वस्वोपादानकारणे वर्तते। यस्मिन् पदार्थे यस्य कार्यवस्तुनः प्रागभावो वर्तते तस्मात्पदार्थात् तदेव कार्यमुत्पद्यते, नान्यत् कार्यम्। मृत्पिण्डे घटप्रागभाव एव वर्तते। तस्मात् मृत्पिण्डात् घट एवोत्पद्यते, न तैलादिकम्। तिलेषु तैलप्रागभाव एव वर्तते। तस्मात्तिलेभ्यस्तैलमेवोत्पद्यते, न घटादिकम्। इत्थं निखिलकार्योत्पत्तौ तत्तत्प्रागभावः कारणम्। तस्मात् उपादानकारणकार्ययोरत्यन्तभेदाभ्युपगमान्नैयायिकमते नास्ति दोषः।