- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४३२-४३७ भट्टमतखण्डनम्
- ४३२-४३७ उपादानकारणतत्कार्ययोर्भेदाभेदरूपतादात्म्यसंबन्धो दुर्घटः
आवर्तः ४३५
भेदाभेदयोः परस्परविरोधित्वात् तयोः सामानाधिकरण्यासंभवाच्च उपादानकारणतत्कार्ययोर्भेदसहिताभेदो नास्ति। तयोः *१ केवलभेदोऽस्ति। केवलभेदपक्षे भट्टेनोक्तो दोषो नैयायिकमते सामर्थ्यरूपशक्तिवादिसिद्धान्तिमते च न संभवति। उपादानकारणतत्कार्ययोरत्यन्तभेदे भट्टेन प्रदर्शितो दोषस्त्वयम् मृत्पिण्डात् अत्यन्तभिन्नो घटस्ततो यद्युत्पद्येत तदा मृत्पिण्डात् अत्यन्तभिन्नतैलोत्पत्तिरपि तत आपद्येत। अत्यन्तभिन्नत्वात्। मृत्पिण्डात् तैलं यदि नोत्पद्यते तर्ह्यत्यन्तभिन्नत्वाविशेषात् घटोऽपि मृत्पिण्डान्नोत्पद्येतेति।
*१. सामर्थ्यरूपशक्तिवादिसिद्धान्तिमते उपादानकारणस्य कार्येण सह नात्यन्तभेदः। किन्त्वनिर्वचनीयतादात्म्यसंबन्धोऽस्ति। तथाप्यत्र तयोर्योऽत्यन्तभेद उक्तः स प्रौढिवादेन। प्रौढिर्नाम = स्वमाहात्म्यम्, वादः = कथनम्। तथा च स्वमाहात्म्यप्रकटनाय वादः प्रौढिवादः। प्रौढिवादलक्षणं चैवम् – प्रतिवाद्युक्तमङ्गीकृत्यापि स्वमते दोषपरिहारः। प्रकृते चोपादानकारणतत्कार्ययोर्भेदपक्षे भट्टो दोषमब्रवीत्। तादृशभट्टोक्तदोषयुक्तपक्षमङ्गीकृत्यापि स्वमते दोषः परिहृतः। तस्मादयं प्रौढिवादः।