- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४३२-४३७ भट्टमतखण्डनम्
- ४३२-४३४ वाच्यवाचकयोर्भेदाभेदरूपतादात्म्यसमङ्गमिति निरूपणम्
आवर्तः ४३४ – वाच्यवाचकयोः केवलभेदमङ्गीकुर्वतां मते भट्टेन् यो दोषः प्रदर्शितः स सिद्धान्ते सामर्थ्यरूपशक्तिमङ्गीकुर्वतां मते न संभवति। तथा हि, भट्टेन प्रदर्शितो दोषस्तावदेवम्
घटपदस्य वाच्यार्थो घटपदादत्यन्तभिन्नश्चेत्, यथा घटपदात् अत्यन्तभिन्नः पटरूपार्थो न ततः प्रतीयते तथा घटपदात् कलशरूपार्थोऽपि न प्रतीयेत, कलशरूपार्थस्यापि घटपदादत्यन्तभिन्नत्वात्। अपि च घटपदवाच्यं घटपदात् भिन्नत्वेनाभ्युपगम्य तस्य घटपदेन प्रतीत्यभ्युपगमे, यथा घटपदात् अत्यन्तभिन्नः कलशरूपार्थः प्रतीयते तथात्यन्तभिन्नः पटरूपार्थोऽपि प्रतीयेतेति।
अत्रोच्यते – अयं च दोषः सामर्थ्यरूपामथवेच्छारूपां शक्तिमनभ्युपगच्छतां मते भवेत्। सामर्थ्यरूपां शक्तिमङ्गीकुर्वतां तु नायं दोषः। सिद्धान्तिमते वाच्यवाचकयोर्भेदो भवितुमर्हति। तथा हि घटपदवाच्यः कलशः, तदवाच्यः पटश्चेत्युभयमपि घटपदादत्यन्तं भिन्नमेव। तथापि घटपदे कलशरूपार्थज्ञानोत्पादनशक्तिरेवास्ति। न तु पटादिरूपार्थान्तरज्ञानोत्पादनशक्तिः। तस्मात् घटपदात्कलशरूपार्थप्रतीतिरेव जायते नार्थान्तरप्रतीतिः। इत्थं यस्मिन् पदे यदर्थबोधनशक्तिरास्ते स एवार्थः तेन पदेन प्रतीयते, नार्थान्तरम्। तस्माद्वाच्यवाचकयोरत्यन्तभेदेऽपि नास्ति दोषः। तयोः भेदसहिताभेदरूपतादात्म्यसंबन्धस्तु न घटते, भेदाभेदयोः परस्परविरोधित्वात्। तयोरेकत्र सामानाधिकरण्यासंभवाच्च।