ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४३२-४३७ भट्टमतखण्डनम्
- ४३२-४३४ वाच्यवाचकयोर्भेदाभेदरूपतादात्म्यसमङ्गमिति निरूपणम्


आवर्तः ४३३

यदुक्तं वाचकशब्दो वाचि वर्तते, वाच्योऽर्थो बहिर्वर्तते इति वाच्यवाचकयोर्भेदो लोकप्रसिद्धः। श्रुतौ ओंकाररूपाक्षरं परं ब्रह्मेत्युक्तत्वात् (४३० आवर्ते) अभेदश्च सिद्ध इति वाच्यवाचकयोर्भेदाभेदौ प्रमाणसिद्धाविति।

अत्रोच्यते – प्रणवरूपस्य ओंकाराक्षरस्य परब्रह्मणश्चाभेदो वेदे कथितः। न तु तस्य वेदस्य वाच्यवाचकयोरभेदे तात्पर्यम्। तस्य गूढं तात्पर्यान्तरमस्ति। यत्र यत्र ‘ओमित्यक्षरं ब्रह्म’ इति कथ्यते तत्र तत्र ‘ओमित्यक्षरं परब्रह्मरूपेणोपास्यम्’ इत्यर्थे वाक्यस्य तात्पर्यम्, न तु परब्रह्मणः ओमित्यक्षरस्य च भेदाभावे। इदं तु तात्पर्यं भट्टो न वेद।

यथा विधीयते तथैवोपास्यस्य स्वरूपेण भाव्यमिति न नियमः। किन्तु वस्तुनः स्वरूपं विहाय रूपान्तरेणापि वस्तूपास्यते। यथा सालग्रामस्य विष्णुरूपेण, बाणस्य शिवरूपेण चोपासनं शास्त्रेणोपदिश्यते। तत्र शङ्खचक्रगदाद्युपेतचतुर्भुजविशिष्टमूर्तिर्न सालग्रामेऽस्ति। न च बाणे गङ्गालङ्कृतजटाजूटडमरुकचर्मकपालाद्युपेता भद्रामुद्रया शरणागतानां गुणत्रयातीतात्मतत्त्वोपदेष्ट्री मूर्तिरस्ति। किन्तु सालग्रामबाणादिकं शिलारूपेणैवास्ते। किन्तु शास्त्राज्ञया शिलादृष्टिपरित्यागपूर्वकं सालग्रामे बाणे च क्रमेण विष्णुस्वरूपेण शिवस्वरूपेण चोपासनं क्रियते। तस्मादुपासनं नोपास्यस्वरूपाधीनम्, किन्तु विध्यधीनम्। यथा शास्त्रं विधत्ते तथोपासितव्यम्।

किञ्च छान्दोग्योपनिषदि (५.३.१०) पञ्चाग्निविद्याप्रकरणे द्युपर्जन्यपृथिवीपुरुषयोषिद्रूपाः पञ्च पदार्था अग्निदृष्ट्योपासितव्याः, श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्च पदार्था आहुतिरूपेणोपासनीया इति च श्रुतिराह। तत्र द्युलोकादयो नाग्नयः, नापि श्रद्धादय आहुतयः। किन्तु वेदाज्ञया द्युलोकादयोऽग्नित्वेन श्रद्धादयश्चाहुतित्वेनोपास्यन्ते । एवमेव ओमित्यक्षरविषयकब्रह्मोपासनमुक्तम्। तत्र ओमित्यक्षरस्य वस्तुतो ब्रह्मस्वरूपत्वाभावेऽपि ब्रह्मस्वरूपत्वेनोपास्यत्वमुपपद्यते। उपासनावाक्ये वस्तुन अभेदो नापेक्ष्यते। किन्तु भिन्नं वस्त्वप्यभिन्नतयोपास्यते।

विचार्यमाणे ब्रह्मवाचकस्योङ्कारस्य स्ववाच्यब्रह्मणा सहाभेदो युज्यते च। कलशादिजडरूपार्थवाचकानां घटादिपदानां तु स्ववाच्यजडरूपार्थैरभेदो न युज्यत एव। तथापि सर्वेषां नामरूपाणां ब्रह्मणि कल्पितत्वात्, ब्रह्म सर्वाधिष्ठानं भवति। ओङ्कारोऽपि ब्रह्मणो नाम। तस्माद्ब्रह्मण्यो - ङ्कारः कल्पितः। कल्पितं वस्त्वधिष्ठानाव्यतिरिक्तमधिष्ठानात्मकमेव भवति। तस्मात् ओमित्यक्षरं ब्रह्मैव। घटादिपदानां तु जडरूपस्वार्थो नाधिष्ठानम्। किन्तु स्ववाच्यैः सह घटादिशब्दा ब्रह्मणि कल्पिताः। तस्माद्ब्रह्मैव घटादिपदानामधिष्ठानम्। तस्मात् सर्वकारणत्वेन सर्वाधिष्ठानत्वात् सर्वपदानां ब्रह्माभेदो युज्यते। घटादिपदानां तु जडरूपस्ववाच्यैः सहाभेदो न केनापि प्रमाणेन युज्यते। तस्माद्भट्टाभिमतो वाच्यवाचकयोरभेदो नैव संभवति।