ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्

- ४२३-४४० भट्टमतखण्डनम्
- ४२३-४४० वाच्यवाचकयोर्भेदाभेदरूपतादात्म्यसमङ्गमिति निरूपणम्

आवर्तः ४२२

एकस्य वस्तुन एकस्मिन्नधिकरणे भेदाभेदयोरुभयोः सामानाधिकरण्यं विरुद्धम्। तस्मात् स्थलचतुष्टयेऽपि भेदाभेदरूपतादात्म्यं यदुक्तं तत्सकलं विरुद्धमिति युक्तिमन्तो वदन्ति। अत्रायमभिप्रायः (१) एकस्मिन् घटे स्वाभेदस्यान्यवस्तुभेदस्य च सामानाधिकरण्यं यद्यप्यस्ति तथापि यस्याभेदोऽस्ति तस्यैव भेदस्तत्र नास्ति, यस्य भेदोऽस्ति तस्यैवाभेदो नास्तीत्यभिप्रायेणैकस्य वस्तुनो भेदाभेदौ विरुद्धावित्युच्यते। (२) एकस्य घटस्य स्वस्मिन्नभेदः परस्मिन् भेदश्च यद्यप्यस्ति तथापि यत्राभेदोऽस्ति तत्र नास्ति भेदः। यत्र भेदोऽस्ति तत्र नास्त्यभेदः, इत्यभिप्रायेणैकस्य वस्तुनो भेदाभेदावेकस्मिन्नधिकरणे विरुद्धावित्युच्यते।

किञ्च भेदाभेदौ परस्परं विरोधिनौ। एकस्मिन् वस्तुनि यस्य भेदोऽस्ति तस्याभेदः, यस्याभेदोऽस्ति तस्य भेदश्च विरुद्ध एव। तस्मात् वाच्यवाचकयोः, गुणगुणिनोः, जातिव्यक्त्योः, क्रियाक्रियावतोः, उपादानकारणतत्कार्ययोश्च भेदाभेदरूपतादात्म्यसंबन्धाभ्युपगमोऽसङ्गत एव।