ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२९-४३१ भट्टमतेन शक्तिलक्षणम्


आवर्तः ४३१ – प्रसङ्गादन्यत्रापि (वाच्यवाचकभावस्थलादन्यत्रापि) भेदाभेदरूपतादात्म्यसंबन्धः प्रदर्श्यते

रूपरसगन्धादयो गुणाः। तदाश्रयभूतं द्रव्यं गुणि। अनेकसमवेतो धर्मो जातिः। यथा सर्वब्राह्मणशरीरेषु ब्राह्मणत्वमेकमेव वर्तते। तथा सर्वपुरुषेष्वेकं पुरुषत्वम्, सर्वघटेष्वेकं घटत्वं च वर्तते। लोके ब्राह्मणत्वपुरुषत्वादिकं यस्योच्यते तस्मिन् ब्राह्मणादिशरीरे एव ब्राह्मणत्वादिजातिर्वर्तते। ब्राह्मणत्वादिजात्याश्रयभूतं ब्राह्मणादिशरीरं व्यक्तिरित्युच्यते। गमनागमनादिकं क्रियेत्युच्यते। तद्वान् क्रियाश्रयः कर्तेति चोच्यते। एतावतां पदार्थानां तादात्म्यसंबन्धो वर्तत इति ज्ञात्वा कार्यकारणरूपं वस्तु, गुणगुण्यादिषु योजयेत्।

अत्रायमभिप्रायः – गुणगुणिनोरिव कार्यकारणयोरपि तादात्म्यसंबन्धोऽस्ति। गुणगुणिनोः परस्परं तादात्म्यमेव संबन्धः। तथा जातिव्यक्त्योः क्रियाक्रियावतोश्च परस्परं तादात्म्यसंबन्ध एव। एवं कार्यकारणयोरपि तादात्म्यमेव संबन्धः। *२ तादात्म्यं नाम भेदसहिताभेदः। निमित्तकारणस्य कार्यस्य च परस्परं भेदाभेदरूपतादात्म्यसंबन्धो नास्ति। तयोरत्यन्तभिन्नत्वात्। उपादानकारणकार्ययोस्तु भेदाभेदरूपतादात्म्यमेव संबन्धः। घटस्य निमित्तकारणं कुलालदण्डादिकम्। तस्य घटादिकार्येण सहात्यन्तभेद एवास्ति। उपादानकारणभूतमृत्पिण्डतत्कार्यभूतघटयोस्तु भेदसहिताभेद एवास्ते।

*२. गुणगुणिनोर्जातिव्यक्त्योः क्रियाक्रियावतोः कार्यकारणयोश्चेति चतुर्षु स्थलेषु भट्टवद्वेदान्त्यपि तादात्म्यसंबन्धमङ्गीकरोति। वेदान्त्यभिमततादात्म्यसंबन्धलक्षणं भट्टाभिमततादात्म्यलक्षणाद्भिन्नमेव। चतुर्षु स्थलेषु नैयायिकाः समवायाख्यं नित्यसंबन्धं ब्रुवते।

मृत्पिण्डाद्घटो यद्यत्यन्तभिन्नः स्यात् तर्हि अत्यन्तभिन्नतैलादिवत् घटोऽपि मृत्पिण्डान्न जायेत। उपादानकारणस्य स्वकार्येण सहात्यन्ताभेदो यदि स्यात् तदा नैव मृदो घट उत्पद्येत। स्वस्वरूपादेव स्वोत्पत्त्यभावात्। तस्मादुपादानकारणस्य स्वकार्येण सह भेदसहिताभेदोऽस्ति। अभेदसत्त्वात् भेदपक्षोक्तो दोषः, भेदसत्त्वादभेदपक्षोक्तो दोषश्च न प्रसज्यते। इत्थमुपादानकारणस्य स्वकार्येण सह भेदाभेदरूपसंबन्धो युक्त्या सिद्ध्यति।

आपातप्रतीत्यापि उपादानकारणस्य कार्यस्य च भेदाभेदौ सिद्ध्यतः। ‘इयं मृत्’ ‘अयं घटः’ इति प्रतीत्या भेदः सिद्ध्यति। विचार्यमाणे तु घटस्यान्तर्बहिश्चान्तरेण मृदं नान्यत्प्रतीयते। किन्तु मृदेव प्रतीयते। तस्मादभेदः सिद्ध्यति। अनेन उपादानकारणकार्ययोर्भेदाभेदरूपतादात्म्यसंबन्धोऽस्ति। तद्वत् गुणगुणिनोरपि भेदाभेदसंबन्धोऽस्ति। घटरूपस्य घटादत्यन्तभेदो यदि स्यात् तदा घटस्य पटेनात्यन्तभेदसत्त्वात् यथा पटनाश्रित्य घटः स्वातन्त्र्येण वर्तते, तथा घटरूपमपि घटमनाश्रित्य स्वातन्त्र्येणैव तिष्ठेत्। गुणगुणिनोरत्यन्ताभेदो यदि स्यात् तदापि घटरूपं घटाश्रितं न स्यात्। स्वस्यैव स्वाश्रयत्वासंभवात्। तस्माद्गुणगुणिनोरपि भेदाभेदरूपतादात्म्यसंबन्धोऽस्ति। इयमेव युक्तिर्जातिव्यक्त्योः क्रियाक्रियावतोश्च भेदाभेदरूपतादात्म्यसंबन्धेऽवगन्तव्या। खण्डनीयमतस्यानेकयुक्तिभिः प्रसाधने प्रयोजनाभावान्न युक्त्यन्तराणि प्रदर्श्यन्ते।