- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२९-४३१ भट्टमतेन शक्तिलक्षणम्
आवर्तः ४३० – भेदाभेदपक्षे प्रमाणम्
माण्डूक्यादिवेदवाक्येषु “ओम् इत्येतदक्षरं ब्रह्म” इत्युच्यते। तत्र *१ व्याकरणरीत्या प्रकाशस्वरूपः सर्वसंरक्षक इति ओमित्यक्षरस्यार्थः। ब्रह्म चेदृशमेव। तस्मात् ‘ओम्’ इत्यक्षरं ब्रह्मणो वाचकम् ब्रह्म च वाच्यम्। वाच्यवाचकयोर्यद्यत्यन्तभेदः स्यात् तदा वाचकस्योङ्काररूपाक्षरस्य वाच्यभूतब्रह्मणश्च माण्डूक्याद्युपनिषत्सु अभेदो नोच्येत। श्रूयते च ‘ओमिति ब्रह्म’ इत्यभेदः। तस्माद्वाच्यवाचकयोरभेदे वेदवाक्यमेव प्रमाणम्।
*१. ‘अव’ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीत्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु इत्येकोनविंशत्यर्थकधातोः “अवतेष्टिलोपश्च” (सू. १४२) इत्यौणादिकसूत्रेण मन्-प्रत्ययः, मन्-प्रत्ययस्य टेर्लोपश्च विहितः। तस्य “ज्वरत्वरस्निव्यविमवामुपधायाश्च” (पा. सू. ६.४.२०) इति सूत्रेणोपधावकारयोरूठ्। ततो गुणः । ततः श्लिष्टोच्चारणमिति प्रक्रियया ‘ओम्’ इति निष्पन्नम्। “अकार उकारो मकार इति। तानेकधा समभरत्। तदेतत् ओम् इति” (ऐ. बा. २५.७) इति श्रुतेः। “ओम् इतीदं सर्वम्” इति श्रुत्या सर्ववेदसारभूतत्वात् सर्वमयत्वश्रवणाच्च। सर्वमयत्वं च सर्वात्मकब्रह्मस्वरूपाभिव्यक्तियोग्यस्थानत्वात् ब्रह्माभिधानत्वाच्च।
सर्वलोकप्रसिद्ध्या वाच्यवाचकयोर्भेदश्च सिद्धः। तथा हि, अग्न्यादिशब्दाः वागाश्रिताः। तदर्थभूता वह्न्यादिपदार्था वाचो बहिर्देशे चुल्ल्यादिस्थलेषु वर्तन्ते। तथैव ‘ओम्’ इत्यक्षररूपं पदमपि वाचि वर्तते। तदर्थभूतं परं ब्रह्म तु न वाचि वर्तते। किन्तु वाचो बहिः स्वे महिमनि प्रतिष्ठितम्। ब्रह्मणो *१ व्यापकत्वेन वाचि तदभावेऽपि ब्रह्मण्येव वाक् प्रतिष्ठिता भवति। न तु वाचि ब्रह्म। इत्थं पदं वाचि वर्तते। अर्थो बहिरिति सर्वजनप्रसिद्धम्। अतः पदतदर्थयोर्भेदः सर्वलोकप्रसिद्धः। इत्थं वाच्यवाचकयोर्भेदे सर्वानुभवः प्रमाणं तदभेदे च वेदवचनं प्रमाणमिति पदस्य स्वार्थेन सह भेदाभेदरूपतादात्म्यसंबन्धः नाप्रामाणिकः। किन्तु प्रमाणसिद्ध एव।
*१. स्वल्पदेशवर्ति व्याप्यमित्युच्यते। अधिकदेशवर्ति व्यापकमिति च। तथा हि स्वल्पदेशवर्ती घटो व्याप्यः। अधिकदेशवर्तित्वादाकाशो व्यापकः। व्याप्यं व्यापकेऽन्तर्भवति। व्यापकं तु व्याप्याद्बहिरपि वर्तते। घट आकाशेऽन्तर्भवति। आकाशस्तु घटादिभ्यो बहिरपि वर्तते। तथा वाक् ब्रह्मापेक्षयाल्पदेशवर्तित्वेन व्याप्यत्वात् ब्रह्मण्यन्तर्भवति। ब्रह्म तु वागाद्यपेक्षयाधिकदेशवर्तित्वेन व्यापकत्वाद्वागादिभ्यो बहिरपि वर्तते।