- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२३-४४० भट्टमतेन शक्तिलक्षणम्
(आ॰ ४२९ - ४३१) भट्टमतेन *१ शक्तिलक्षणम्
*१. कुमारिलभट्ट इति भट्टपाद इति चास्य व्यपदेशः। मण्डनमिश्रस्य प्रभाकरस्य चायं गुरुः। जैमिनीयपूर्वमीमांसाया वार्तिकमयं विरचयामास।
पदस्यार्थेन सह तादात्म्यरूपो यः संबन्धः सा शक्तिरिति भट्टमतानुयायिन आहुः। सोऽयं तादात्म्यरूपः *२ संबन्धो भेदाभेदस्वरूप इति च ते कथयन्ति।
*२. अभावसादृश्यभिन्नः प्रतियोगिसापेक्षो ज्ञानविषयश्चात्र संबन्ध इत्युच्यते। यत्र (यद्वस्तु) सम्बच्यते तदधिकरणमनुयोगीत्युच्यते। यद्वस्तु संयोगि तत् प्रतियोगीत्युच्यते। संबन्धस्यानेकविधत्वेऽपि संयोगः, समवायः, तादात्मत्यमिति त्रयः प्रधानभूताः।
(क) तत्र द्वयोर्द्रव्ययोः संबन्धः संयोगः। अयं च त्रिविधः – कर्मजसंयोगः, संयोगजसंयोगः, सहजसंयोगश्चेति। यदुत्पत्तौ क्रिया असमवायिकारणम् (निमित्तम्) स कर्मज - संयोगः। स द्विविधः – अन्यतरकर्मज उभयकर्मजश्चेति। एकस्य क्रियया जन्योऽन्यतरकर्मजः। यथा पतता पक्षिणा सह वृक्षस्य जायमानः संयोगः। उभयक्रियाभ्यां जन्य उभयकर्मजः। यथा मेषद्वयसंबन्धजो मेषयोः संयोगः। संयोगरूपासमवायिकारणजन्यः संयोगजसंयोगः। यथा हस्तवक्षसंयोगात् कायवृक्षसंयोगः संयोगजसंयोगः। जन्मतः सिद्धसंबन्धः सहजसंयोगः। यथा सुवर्णे पार्थिवभागस्य तैजसभागस्य च विद्यमानः संबन्धः सहजसंयोगः।
(ख) नित्यसंबन्धः समवायः। न्यायमते गुणगुणिनोः, जातिव्यक्त्योः, क्रियाक्रियावतोः कारणकार्ययोश्च (अवयवावयविनोश्च) संबन्धः समवायः।
(ग) न्यायमते स्वरूपसंबन्ध एव तादात्म्यसंबन्ध इत्युच्यते। पूर्वमीमांसावार्तिककारो भट्टः स्वमते स्वल्पभेदसहितोऽभेदस्तादात्म्यमित्यवोचत्। वेदान्तसिद्धान्ते तु भेदाभेदविलक्षणः संबन्धस्तादात्म्यमित्याहुः। अस्यैवानिर्वाच्यतादात्म्यमित्यपि नाम। भेदविलक्षण इत्युक्तेर्वास्तवोऽभेद इति सिद्धम्। अभेदविलक्षण इत्युक्तेः कल्पितो भेद इति च सिद्धम्। तस्मात् सिद्धान्ते कल्पितभेदविशिष्टो वास्तवाभेदस्तादात्म्यमिति सिद्धम्। गुणगुण्यादीनां न्यायमतोक्तसमवायस्थाने भाट्टा वेदान्तिनश्च तादात्म्यसंबन्धमभिप्रयन्ति। स च तादात्म्यसंबन्धस्त्रिविधः – (१) सहजतादात्म्यम्, (२) कर्मजतादात्म्यम्, (३) भ्रान्तिजतादात्म्यमिति च।
(१) चिदहङ्कारे प्रतिफलति। चित्प्रतिबिम्बोऽहङ्कारश्चेत्युभयं मिलित्वा तप्तायःपिण्डवदेकीभूय चिद्वदेवावभाति। तादृशचित्प्रतिबिम्बयुक्ताहङ्कारस्यैव सहजतादात्म्यमिति नाम। उत्पत्तिदशायामेवोभयमपि मिलित्वैवोत्पन्नमिति चिदहङ्कारयोस्तादात्म्यमेव सहजतादात्म्यमित्युच्यते।
(२) चित्प्रतिबिम्बयुक्तत्वेन चिद्वद्भासमानस्याहङ्कारस्य स्थूलशरीरेण सह संबन्धो यः स कर्मजतादात्म्यमित्युच्यते। जाग्रद्भोगप्रदकर्मण उत्पत्तौ तत्कर्मजतादात्म्यमपि जायते। तत्कर्मनाशे तत्कर्मजतादात्म्यमपि नश्यति। कर्मण उत्पत्तौ कर्मजतादात्म्यमप्युत्पद्यते। कर्माभावे कर्मजतादात्म्यमपि नश्यति। जाग्रत्सुषुप्त्यादिषु तथा दर्शनात्।
(३) अहं ब्राह्मणः, क्षत्रियः, ब्रह्मचारी, गृहस्थ इत्यादिचित्तवृत्तिसहिताहङ्कारस्य अहं शब्दार्थभूतसाक्षिणा सह तादात्म्यं भ्रान्तिजतादात्म्यम्। सर्वाभीष्टात्मस्वरूपमेवाहमिति प्रतीयते। अज्ञानाधीनभ्रान्तिजन्यत्वादस्य भ्रान्तिजतादात्म्यमिति नाम। न्यायमतोक्तगुणगुण्यादिसंबन्धरूपसमवायस्थाने वेदान्तिनां भट्टानां च मते तादात्म्यमुच्यते। अनयोस्तादात्म्ययोर्भेदोऽस्ति। केवलभेदे तादात्म्योक्तिर्न युज्यते। अभेदप्रतीतिविषयस्यापि तादात्म्योक्तेः केवलभेदाश्रयेऽभेदप्रतीत्यसंभवात्। तस्मात्तादात्म्यसंबन्धे अभेद आवश्यकः। अपि च केवलाभेदे संबन्ध एव न सिद्ध्यति। द्वयोरेव हि संबन्धः संभवति। न तु स्वेनैव स्वस्य। तस्मात् सर्वत्र संबन्धे भेद आवश्यकः। तस्मात्तादात्म्यसंबन्धे भेदोऽप्यपेक्ष्यते। इत्थं भेदाभेदद्वयमन्तरा तादात्म्यसंबन्धो नोपपद्यते। यद्यपि भेदाभेदयोः सामानाधिकरण्यं न संभवति, विरोधात्। तथापि प्रागुक्तरीत्या कल्पितभेदसहितवास्तवा। भेदस्य एकत्र सामानाधिकरण्यं सिद्ध्यति। अयमेवानिर्वचनीयतादात्म्यसंबन्ध इत्युच्यते।
अयं च तेषामभिप्रायः – (१) अग्निरिति पदस्य वह्निरूपार्थेन नात्यन्तं भेदः। अत्यन्तभेदे सति यथा अग्निपदादत्यन्तभिन्ना जलादिपदार्था अग्निरिति पदेन न प्रतीयन्ते। तथा अग्निरिति पदेनाग्निपदादत्यन्तभिन्नो वह्निरूपपदार्थोऽपि न प्रतीयेत।
(२) पदस्य स्वार्थेन सहात्यन्तभेदाभाववदत्यन्ताभेदोऽपि नास्ति। यद्यत्यन्ताभेदो वाच्यवाचकयोः स्यात्, तदा अग्निपदवाच्यार्थभूतवह्निना यथा मुखं दह्यते, तथाग्निरूपार्थवाचकाग्निशब्दोच्चारणमात्रेणापि मुखं दह्येत। न तु तथा अग्निशब्दमुच्चारयितुः पुरुषस्य मुखं दह्यते। तस्माद्वाच्यवाचकयोर्नास्त्यत्यन्ताभेदोऽपि।
अपि तु – अग्निपदस्य वह्निरूपार्थेन सह भेदसहितोऽभेदो वर्तते। भेदसत्त्वान्मुखं न दह्यते। अभेदसत्त्वात् अग्निर पदेन वह्निप्रतीतिर्जायते। यथा अग्निरिति पदस्य वह्निरूपार्थेन भेदसहितोऽभेदो वर्तते तथैव उदकम्, वनम्, नीरम्, जीवनमित्यादिपदानां जलरूपार्थेन सह भेदसहितोऽभेदो वर्तते। उदकशब्दजलरूपार्थयोरत्यन्तभेदसत्त्वे, यथा उदकमित्यादिशब्दादत्यन्तभिन्ना अग्न्याद्या अर्था उदकमिति शब्दान्न प्रतीयन्ते तथा जलरूपार्थोऽपि उदकादिपदैर्न प्रतीयेत। अतो नात्यन्तभेदोऽस्ति। उदकशब्दजलरूपार्थयोरत्यन्ताभेदोऽपि न। अत्यन्ताभेदे सति जलसंबन्धेन मुखे शैत्योत्पत्तिवत् उदकादिपदोच्चारणेनापि मुखे शैत्यं जायेत। परन्तूदकादिपदोच्चारणेन मुखे शैत्यं न जायते। तस्मान्नोदकादिपदानां जलरूपार्थेन सहात्यन्ताभेदोऽपि। एवं शब्दार्थयोर्भेदसहिताभेदसत्त्वान्नोभयविधदोषोऽपि।
इत्थमेव सर्वत्र स्वस्ववाच्यैः सह वाचकपदानां भेदसहितोऽभेदो वर्तते। अयमेव भेदसहिताभेदो भट्टमतानुयायिभिस्तादात्म्यसंबन्ध इति भेदाभेदसंबन्ध इति चोच्यते। तादृशभेदाभेदरूपतादात्म्यसंबन्ध एव सर्वपदनिष्ठस्वस्ववाच्यार्थ - ज्ञानजनकशक्तिरिति, तादृशतादात्म्यसंबन्धातिरिक्तसामर्थ्यरूपशक्तिर्नास्तीति भट्टमतम्। भेदाभेदपक्षे च युक्तिर्निरूपिता।