ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२७-४२८ वैयाकरणाभिमतशक्तिखण्डनम्


आवर्तः ४२८

अथ यदि वैयाकरणो ब्रूयात् सामर्थ्याभ्युपगमे हि पदेऽपि सामर्थ्यरूपा शक्तिरेव भवेदित्यापद्येत; न सामर्थ्यमङ्गीक्रियतेऽस्मन्मते। तस्मादर्थज्ञानजनकत्वरूपयोग्यतैव पदशक्तिरिति। तदा स प्रष्टव्यः – सामर्थ्यं किं पदे केवले नाङ्गीक्रियते, उताग्न्यादिसर्वपदार्थेष्वपीति। द्वितीयपक्षो न युक्तः। अग्न्यादिसर्वपदार्थेषु सामर्थ्यरूपशक्तिसद्भावस्य पूर्वं युक्तिभिः साधितत्वात्। पदे केवलमर्थबोधजनकत्वरूपयोग्यतैव शक्तिः। न तु तदतिरिक्तसामर्थ्यरूपा शक्तिरस्तीति प्रथमपक्षे द्वितीयपक्षोक्तो यो दोषः ‘वह्न्यादौ सामर्थ्यरूपशक्त्यनङ्गीकारे प्रतिबन्धकसान्निध्ये दाहाद्यनुत्पत्तिर्नोपपद्येत’ इत्यादिः स दोषो यद्यपि नास्ति। तथापि पदे सामर्थ्यानभ्युपगमे ‘असमर्थं पदं योग्यम् = सामर्थ्यहीनं पदमर्थज्ञानं जनयति’ इति भवदीयः सिद्धान्त इति पर्यवस्यति। तदिदमसङ्गतम्। ‘पदन्त्वसमर्थमेव। तथाप्यर्थज्ञानं जनयति’ इत्येषा तवोक्तिः ‘अयं नपुंसकः। तथाप्यमोघवीर्यः’ इत्युक्तिवदत्यन्तं व्याहता। सामर्थ्ययुक्तं हि समर्थम्, सामर्थ्यहीनं चासमर्थम्। असमर्थेन न किञ्चिदपि कार्यं सिद्ध्यतीति लोकप्रसिद्धिः। ततश्चासमर्थेन पदेनार्थज्ञानरूपकार्यमपि न संभवेदेव। तस्मात्पदे सामर्थ्यमवश्यमभ्युपेयम्। एवञ्च भर्जिते बीजे अङ्कुरोत्पत्तिहेतुत्वस्येवासमर्थे पदेऽर्थबोधहेतुत्वस्यासंभवात् अर्थबोधहेतुत्वरूपयोग्यता न पदशक्तिः। किन्तु सा योग्यता पदस्य येन सामर्थ्येन सम्पद्यते तत्सामर्थ्यमेव पदशक्तिरित्यभ्युपेयम्। ततश्च लोकप्रसिद्धसामर्थ्यस्यैव शक्तित्वाङ्गीकारे न कोऽपि दोषः।