ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२५-४२७ शक्तिविषये मतान्तरखण्डनम्

- ४२५-४२७ वैयाकरणाभिमतशक्तिखण्डनम्

आवर्तः ४२७ – वैयाकरणाभिमतशक्तिखण्डनम्

अर्थज्ञानहेतुत्वरूपा योग्यता शक्तिरिति वदन् प्रष्टव्यः – किं भवन्मते पदे सामर्थ्यमस्ति, उत नास्तीति। आद्ये अस्मदभिमता शक्तिरङ्गीकृता भवति। द्वितीये लोकप्रसिद्धसामर्थ्यरूपा शक्तिरेव पदशक्तिरित्यभ्युपेया। न तु पदनिष्ठार्थबोधहेतुतारूपयोग्यता पदशक्तिरिति।

अयमभिप्रायः – पदे सामर्थ्यमभ्युपगच्छतस्तादृशसामर्थ्यातिरिक्तशक्त्यन्तराभ्युपगमो न युज्यते। किन्तु सामर्थ्यमेव शक्तिरित्यभ्युपगम एव युज्यते। सामर्थ्यम्, बलम्, ज्योक्, शक्तिः इत्येतेषां पदानामेकार्थबोधकत्वप्रसिद्धेः। अत एव लोके सामर्थ्यरहितं पुरुषम् ‘अशक्तोऽयम्’ इति वदन्ति। किञ्च भर्जितं प्ररोहासमर्थं बीजं दृष्ट्वास्य बीजस्याङ्करोत्पादनशक्तिर्नास्तीति वदन्ति। इत्थं सामर्थ्यम्, शक्तिः इति पदयोरेकार्थत्वं लोकप्रसिद्धम्। अग्नावपि सामर्थ्यरूपैव शक्तिरिति निश्चितम्। तस्मात् पदेऽपि सामर्थ्यस्यैव शक्तित्वाभ्युपगमो युक्तः। पदे सामर्थ्यमङ्गीकृत्य तद्विलक्षणयोग्यतायाः शक्तित्वाभ्युपगमे लोकप्रसिद्धिविरोधः स्यात्। सामर्थ्यमेव योग्यतेत्युच्यते इति यदि वैयाकरणो ब्रूयात् तदा सिद्ध्यत्येवास्मन्मतम्।