ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२५-४२७ शक्तिविषये मतान्तरखण्डनम्


आवर्तः ४२६ – वैयाकरणरीत्या शक्तिलक्षणं तावत्पदनिष्ठार्थयोग्यता *३

*३. इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा।
अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा॥

(इति वैयाकरणभूषणसारे ३६ कारिका) इन्द्रियाणां स्वविषयेषु चाक्षुषादिषु घटादिषु यथानादिर्योग्यता तदीयचाक्षुषादिकारणता तथा शब्दानामप्यर्थैः सह तद्बोधकतैव योग्यता। सैव शक्तिरित्यर्थः। इति तद्विवरणम्। मञ्जूषायां तु वाच्यवाचकभावकारणीभूतपदार्थयोस्तादात्म्यं शक्तिरित्युक्तम्।

पदनिष्ठा अर्थयोग्यता नाम पदनिष्ठपदार्थबोधहेतुत्वमेव। घटपदे कलशरूपार्थज्ञानहेतुत्वरूपयोग्यतास्ति। सा योग्यतैव शक्तिः। अयमर्थो हरिकारिकां प्रमाणीकृत्य वैयाकरणभूषणाख्यग्रन्थे निरूपितः।