-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२३-४४० शक्तिविषये मतान्तरखण्डनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्
- ४२३-४४० शक्तिविषये मतान्तरखण्डनम्
आवर्तः ४२५ – ईश्वरेच्छैव पदशक्तिरिति नैयायिकोक्तं न साधु
*१ ईश्वरेच्छा तावदीश्वरनिष्ठो धर्मः। न तु पदधर्मः। ईश्वरेच्छायाः पदनिष्ठत्वासंभवात् पदशक्तिरिति वक्तुं न शक्यते। शक्तेः पदधर्मत्वे हि पदशक्तिरिति वक्तुं शक्यते। अतः पदनिष्ठार्थावबोधनसामर्थ्यमेव पदशक्तिः स्यात्।
*२. कुम्भकारस्य घटचिकीर्षा यथा कुम्भकाराश्रयत्वात् कुम्भकारधर्मस्तथा ‘अयं शब्द इममर्थमभिव्यञ्जयतु’ इतीश्वरेच्छेश्वराश्रयत्वादीश्वरस्यैव धर्मः स्यात् न तु पदस्य। अत ईश्वरेच्छा ईश्वरस्यैव शक्तिः स्यात् न तु पदस्य।