ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्


आवर्तः ४२४ – पदनिष्ठमर्थज्ञानोत्पादनसामर्थ्यं पदशक्तिरिति सिद्धान्ते शक्तिलक्षणम्

(१) घटपदं शृण्वतः कलशरूपार्थबोधजननानुकूलं घटपदनिष्ठं सामर्थ्यमेव घटपदस्य शक्तिः। एवमेव पटपदं शृण्वतो वस्त्ररूपार्थबोधजननानुकूलं पटपदनिष्ठं सामर्थ्यमेव पटपदस्य शक्ति। एवमेव सर्वपदानां तत्तदर्थबोधजननानुकूलं तत्तत्पदनिष्ठं सामर्थ्यमेव तत्तत्पदस्य शक्तिरिति ज्ञेयम्।

अत्र दृष्टान्तः – यथा वह्नेः स्वसम्बद्धपदार्थदाहजननसामर्थ्यरूपा शक्तिरस्ति तथा श्रोतुः श्रवणेन्द्रियसंयुक्तशब्दस्य स्वसम्बद्धार्थज्ञानजननसामर्थ्यरूपा शक्तिरस्ति। अग्नौ दाहकत्वशक्तिवत् जले सेचकत्वम्, दाहशान्तिकरत्वम्, चूर्णपिण्डीकारकत्वमित्यादि सामर्थ्यमस्ति। तत्सामर्थ्यमेव शक्तिरित्युच्यते। एवं सर्वपदार्थेषु स्वस्वकार्यजननानुकूलं सामर्थ्यमस्ति। तत्सामर्थ्यमेव शक्तिरिति श्रुतिसिद्धान्तः। अयमर्थो मनसि निश्चयेन धार्यः। नैयायिकादिसिद्धान्तस्तु हेयः।

आक्षेपः – वर्णसमुदायात्मकपदातिरिक्तशक्त्यभावादीश्वरेच्छैव शक्तिः। वह्नेः स्वरूपातिरिक्ततया शक्तिर्नाम नोपलभ्यते। दाहहेतुभूतं वह्निनिष्ठसामर्थ्यमेव वह्नेः शक्तिरिति पूर्वोक्तं न युक्तम्। वह्नौ दाहहेतुत्वं केवलमस्ति। अप्रसिद्धं सामर्थ्यं वह्नौ कल्पयित्वा तस्य दाहकारणत्वकल्पनात् अग्निनिष्ठप्रसिद्धदाहकारणत्वपरित्यागाच्च न किञ्चिदप्यस्ति प्रयोजनम्। यथा दृष्टान्तेऽग्नौ शक्तिर्नाम न काचिदतिरिक्ता भाति तथा दान्तिके पदेऽपि अक्षरसमुदायात्मकपदस्वरूपातिरिक्ता शक्तिर्न भाति। तादृशशक्त्यङ्गीकारे प्रयोजनं च नास्ति। तस्मान्यायमतोक्तेश्वरेच्छारूपा शक्तिरेव युक्ता।

पूर्वोक्ताक्षेपस्य समाधानम् –

अग्न्यादौ अग्न्याद्यतिरिक्तदाहादिकार्यजननानुकूलसामर्थ्यरूपशक्तिसद्भावकथनम् –

गुरुरुवाच – हे सोम्य, सति प्रतिबन्धे ज्वलताप्यग्निना दाहो नैव जायते। उत्तेजकसान्निध्ये त्वग्निना संयुक्तः पदार्थः सत्यपि प्रतिबन्धके दह्यते। विनैव शक्तिं केवलाग्नेरेव दाहकारणत्वाङ्गीकारे उत्तेजकसहितप्रतिबन्धकसद्भावदशायामिव प्रतिबन्धकशून्यकाले इव च उत्तेजकशून्यप्रतिबन्धकसद्भावदशायामपि दाहो नियमेन जायेत। दाहकारणीभूतकेवलाग्नेस्तादृशप्रतिबन्धकसद्भावदशायामपि सत्त्वात्। अस्मन्मते तु अग्निनिष्ठशक्तेः शक्तिसहिताग्नेर्वा दाहहेतुत्वाभ्युपगमान्नायं दोषः। न केवलाग्नेर्दाहहेतुत्वमस्मन्मते। प्रतिबन्धकसद्भावदशायां प्रतिबन्धकेन नाग्नेर्नाशो वा तिरोधानं वा संभवति। किन्त्वग्निनिष्ठशक्तेर्नाशो वा तिरोधानं वा भवति। तस्माद्दाहहेतुभूताग्निशक्तेः, शक्तिविशिष्टाग्नेर्वाभावादेव न दाहो जायते। यत्र तु प्रतिबन्धकसमीपे उत्तेजकं नास्ति तत्र प्रतिबन्धकोऽग्निशक्तेर्नाशं वा तिरोधानं वा करोति। उत्तेजकं तु पुनरपि शक्तेरुत्पत्तिमाविर्भावं वा करोति। तस्मात् सत्यपि प्रतिबन्धके उत्तेजकमाहात्म्यात् दाहकशक्तेः शक्तिविशिष्टाग्नेर्वा सद्भावाद्दाहो जन्यते। इत्थं प्रतिबन्धकेन विनश्यन्ती उत्तेजकेन पुनरुत्पद्यमाना चाग्नेः शक्तिरेव दाहकारणम्। कार्यविरोधि यत् तत्प्रतिबन्धकमित्युच्यते। प्रतिबन्धकसद्भावेऽपि यत्कार्यसाधकं तदुत्तेजकमिति कथ्यते। अग्निविषये प्रतिबन्धकत्वमुत्तेजकत्वं च मणिमन्त्रौषधादीनाम्। मणिमन्त्रौषधादीनां मध्ये यस्य सान्निध्याद्दाहो न जायते स प्रतिबन्धकः। यस्य सान्निध्यात्सत्यपि प्रतिबन्धे दाहो जायते स *१ उत्तेजकः।

*१. प्रतिबन्धकीभूतमणिमन्त्रौषधादयः तेषामग्निनिष्ठदाहशक्तिनाशकत्वतिरोभावकत्वादयः, तथोत्तेजकीभूतमणिमन्त्रौषधादयः तेषामग्निनिष्ठदाहशक्त्युत्पादकत्वाविर्भावकत्वादयश्च टीकरनाथादिसिद्धपुरुषेषु प्रसिद्धम्।

हे सोम्य, अग्नाविव जलादिसकलपदार्थेष्वपि स्थितां तत्तत्कार्यजननानुकूलां शक्तिं जानीहि। विना तु शक्तिं न केनापि कारणेन किमपि कार्यं जन्यते। इत्थं शक्तेः प्रयोजनं निरूपितम्। अग्निस्वरूपातिरिक्तशक्तिर्नास्तीत्याक्षेपसमाधानरूपतया तादृशशक्तिसद्भावविषये अनुभवः प्रदर्श्यते – ‘इदानीं प्रतिबन्धकसद्भावदशायां प्रज्वलत्यप्यग्नौ शक्तिः (दाहसामर्थ्यम्) नास्ति। पश्चादुत्तेजकसद्भावदशायां शक्त्यन्तरं जायते इति शक्तिसद्भावविषयकानुभवः टीकरनाथादिसिद्धपुरुषविनोदचेष्टाः पश्यतां सर्वेषामस्ति तादृशलोकानुभवः केन शक्यतेऽपलपितुम्। अनुमितिप्रमात्मकोऽयमनुभवो न केनापि प्रकारेण बाधितुं शक्यते। इत्थं सिद्धान्तानुसारेण शक्तिस्वरूपं तत्प्रमाणं च निरूपितम्।