-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
- ४२३-४४० शक्तिलक्षणम्

आवर्तः ४३८ – शक्यलक्षणम्
लक्षणाज्ञाने शक्यार्थज्ञानमुपयुज्यते। शक्यसंबन्धस्य लक्षणास्वरूपत्वात्। शक्यार्थज्ञानमन्तरा शक्यसंबन्धरूपलक्षणाज्ञानं न संभवति। अतः शक्यस्य लक्षणमुच्यते। यस्मिन् पदे यस्यार्थस्यावबोधनशक्तिरस्ति तस्य पदस्य सोऽर्थः शक्य इति बोध्यः। शक्यार्थ एव वाच्यार्थ इति अभिधेयार्थ इति मुख्यार्थ इति चोच्यते। तद्यथा – अग्निरिति पदे वह्निरूपार्थावबोधकत्वशक्तिरस्ति। तस्मादग्निपदस्य वह्निः शक्यार्थः, वाच्यार्थः, अभिधेयार्थः, मुख्यार्थश्च भवति। वाच्यार्थबोधकं पदं वाचकमित्युच्यते।