-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्

आवर्तः ४२१ – लक्षणायाः सामान्यस्वरूपं निवेदनीयमिति शिष्यप्रश्नः
शिष्यः पृच्छति स्वामिन्, सामान्यज्ञानानन्तरं हि विशेषजिज्ञासा भवति। यथा ‘ब्राह्मणोऽयम्’ इति सामान्यतो ज्ञाते तदनन्तरं ‘सारस्वतोऽयम्, द्राविडोऽयम्’ इति विशेषज्ञानमुदेति तथा लक्षणायाः सामान्यस्वरूपज्ञानानन्तरमेव जहत्यादिविशेषस्वरूपज्ञानाकाङ्क्षा भवेत्। लक्षणायाः सामान्यज्ञानं विना जहत्यादिविशेषज्ञानं न संभवेत्। तस्माल्लक्षणायाः सामान्यस्वरूपं प्रदर्शयित्वा ततो जहत्यादिविशेषस्वरूपं तत्तल्लक्षणादिवर्णनपूर्वकं बोधयन्तु भवन्त इति।