-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-४६३ महावाक्यार्थज्ञानम्
- ३४३-४६३ लक्षणानिरूपणम्

आवर्तः ४२० – त्रिविधलक्षणानिर्देशः
पूर्वस्मिन् (४१७) आवर्ते भागत्यागलक्षणा प्रपञ्चिता। तत्र हेतुवर्णनायेदानीं लक्षणाभेदः कथ्यते। पण्डिता हि (१) जहती लक्षणा, (२) अजहती लक्षणा, (३) भागत्यागरूपा लक्षणा इति त्रिविधां लक्षणामाहुः। तत्राद्यं द्वयं महावाक्यार्थज्ञाने नोपयुज्यते। महावाक्यं हि भागत्यागलक्षणया बोद्धुर्निजस्वरूपभूतं ब्रह्म बोधयति।