- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ४१८-४१९ मोक्षस्य साधनं ज्ञानमिति प्रकारान्तरेण वर्णनम्
आवर्तः ४१९ – ज्ञान्यज्ञानिनोर्वैराग्ये वैलक्षण्यप्रदर्शनं, अज्ञानिनोऽन्तःकरणस्य साक्ष्यविषयकत्वस्य ज्ञानिनोऽन्तःकरणस्य साक्षिविषयकत्वस्य च वर्णनम्
ज्ञानिनस्त्वयं निश्चयः – ‘विषयोऽसत्यः, अतस्तत्र सत्यत्वबुद्धिर्भ्रान्तिरेव’ इति। भ्रान्तिज्ञानं तद्विषयभूतमिथ्यावस्तु चेत्युभयमपि भ्रम इत्युच्यते। अनेन च ज्ञानिनो वैराग्यापेक्षयाज्ञानिनो वैराग्यस्य भेद उक्तो भवति। तथा हि, अज्ञानिनो वैराग्यं विषयमिथ्यात्वबुद्ध्या नोत्पन्नम्। किन्तु तात्कालिकविषयदोषज्ञानेनैवोत्पन्नम्। अत एव तद्वैराग्यं मन्दं भवति। ‘विषयो मिथ्या’ इत्येषा बुद्धिरज्ञानिनो नोदेति।
(१) यद्यपि शास्त्रेण युक्त्या चाज्ञान्यपि ‘विषयो मिथ्या’ इति जानाति। तथापि ‘विषयो मिथ्या’ इत्यपरोक्षबुद्धिर्ज्ञानिन एव भवति। न तु शास्त्रपरिचयवतोऽप्यज्ञानिनो भवति। तस्मादज्ञानिनः परोक्षया विषयमिथ्यात्वबुद्ध्या नापरोक्षा विषयसत्यत्वबुद्धिर्निवर्तते। इत्थमज्ञानिनो यदा विषये वैराग्यमुत्पद्यते तदा परोक्षा मिथ्यात्वबुद्धिरस्ति। परन्तु परोक्षमिथ्यात्वबुद्ध्यपेक्षया प्रबला विषयसत्यत्वबुद्धिरस्ति। तस्मादज्ञानिनः परोक्षमिथ्यात्वबुद्धिर्वैराग्यस्य हेतुर्न भवति। किन्तु प्रबलया सत्यत्वबुद्ध्या विषयेषु राग एवोत्पद्यते। कदाचिद्वैराग्योदयेऽपि तत्र विषयमिथ्यात्वबुद्धिर्न हेतुः। किन्तु तात्कालिकं विषयदोषज्ञानमेव।
(२) ज्ञानवान् हि सर्वप्रपञ्चमपि मिथ्यात्वेनापरोक्षतया जानाति। तया अपरोक्षमिथ्यात्वबुद्ध्या अपरोक्षसत्यत्वबुद्धिर्दूरीक्रियते। तस्माद्रागहेतुभूतविषयसत्यत्वबुद्धिर्ज्ञानिनो नास्ति। वैराग्यहेतुभूतविषयमिथ्यात्वबुद्धिरेवास्ति। यदि ज्ञानिनो विषये सत्यत्वबुद्धिः पुनर्भवेत् तदा पुनरपि रागोद्भवेन वैराग्यं दूरीभवेत्। किन्तु अपरोक्षतया मिथ्येति निश्चितेऽर्थे पुनरपि सत्यत्वबुद्धिर्न जायत एव। यथा अपरोक्षतया मिथ्येति ज्ञाते रज्जुसर्पे सत्यत्वबुद्धिः पुनर्नोदेति तथा ज्ञानिनः पुनरपि विषये सत्यत्वबुद्धिर्न जायते। इत्थं ज्ञानिनो रागस्योत्पत्तिर्वैराग्यस्य निवृत्तिश्च न संभवतः। तस्माज्ज्ञानिनो वैराग्यं दृढं भवति।
(३) विषयदोषदृष्टिजन्यमज्ञानिनो वैराग्यं तु कालेन दूरीभवेत्। तथा हि, यस्मिन् विषये दोषदृष्टिर्जायते तस्मिन्नेव विषये कालान्तरे सम्यक्त्वबुद्धिर्भवति। यथा सर्वेषां पुरुषाणां पशुधर्मान्ते स्त्रीविषये दोषदृष्टिर्जायते, पुनश्च क्षणान्तरे तस्यां सम्यक्त्वबुद्धिरपि जायते, तद्वत्। तथा च यदा दोषदृष्टिर्दूरीभवति, तदा वैराग्यमपि दूरीभवति। तस्मादज्ञानिनो दृढं *१ वैराग्यं नास्ति।
*१. अज्ञानिनो दृढवैराग्यं न भवतीत्ययमभिप्रायो भगवता भगवद्गीतायां
विषया विनिवर्तन्ते निराहारस्य देहिनः।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥ २५९॥ इत्युक्तम्।
निराहारस्य = बाह्यविषयत्यागिनो जिज्ञासोर्विषयेषु स्थूलरागो निवर्तते। परन्तु रसशब्दवाच्यो वासनारूपो यः सूक्ष्मरागः सोऽपि परब्रह्मापरोक्षज्ञानेन निवर्तत इत्यर्थः।
इत्थं रागवैराग्ये क्रमेणाज्ञानिनो ज्ञानिनश्च लिङ्गत्वेनोक्ते। अन्यदप्यज्ञानिज्ञानिनोश्चिह्नमुच्यते – यथा प्रासादोपरि गजादिमूर्तिरूपं चिह्नमस्ति तथा (१) बन्धधामन्यज्ञानिनोऽन्तःकरणे साक्ष्यरूपा मूर्तिर्वर्तते, (२) मोक्षधामनि ज्ञानिनोऽन्तःकरणे साक्षिरूपा मूर्तिर्वर्तते। साक्षिणो विषयभूतः प्रपञ्चः साक्ष्य इति कथ्यते। (१) साक्ष्यरूपा मूर्तिर्मलिना। साक्षिरूपा मूर्तिः शुद्धा। तत्र साक्ष्यरूपमूर्तावासक्तो रागी। साक्षिरूपमूर्तावासक्तस्त्यागी विरागी च। चञ्चलं भ्रमरूपं जगद्यो निजस्वरूपमिति मन्यते स दुःखस्वरूपे कूपे निमज्जति। अचञ्चलं ब्रह्मैव निजस्वरूपमिति यो मन्यते स आनन्दस्वरूपो भवति।