- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८८-४१९ मोक्षस्य साधनं ज्ञानमिति प्रकारान्तरेण वर्णनम्
आवर्तः ४१८ – रागवैराग्ये क्रमेणाज्ञानिनोश्चिह्नभूते
मोक्षस्य साधनं ज्ञानमेव। अयमर्थः प्रकारान्तरेण वर्ण्यते। हे सोम्य, देहाभिमानवानज्ञानी, तादृशाभिमानरहितो ज्ञानी च क्रमेण बन्धमोक्षयोर्भाजनभूतौ। अज्ञानी बन्धस्याश्रयः। ज्ञानी च मोक्षस्याश्रयः। रागो वैराग्यं च क्रमेण तयोर्ध्वजभूतौ। यथा ध्वजो राज्ञो नगरस्य चिह्नं तथा *१ रागोऽज्ञानिनो लिङ्गम्। वैराग्यं च ज्ञानिनो लिङ्गम्।
*२. धर्माद्यथा वह्निरनुमीयते तथा रागवैराग्याभ्यामज्ञानिज्ञानिनोः स्वरूपमनुमीयते।
यद्यप्यज्ञानिनोऽपि वैराग्यमुत्पद्यते तथापि तस्य वैराग्यं ज्ञानिवैराग्याद्विलक्षणम्। हे सोम्य, शब्दादिविषयेषु सत्यत्वभ्रान्तिः, रज्जुसर्पवद्विषयो भ्रमरूप इति निश्चयबुद्धिश्च क्रमेण, वायुर्लतामिव, रागं वैराग्यं च सदा चालयतः। रागवैराग्ययोः शैथिल्यं न जनयत इति यावत्। विषयेषु सत्यत्वबुद्ध्या रागस्य शैथिल्यं दूरीक्रियते। विषयेषु भ्रमत्वमिथ्यात्वबुद्ध्या वैराग्यस्य शैथिल्यं दूरीक्रियते इति तात्पर्यार्थः।