ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ४१४-४१७ उपदिष्टार्थसङ्ग्रहः


आवर्तः ४१७ – ज्ञानस्वरूपम्

ज्ञानस्वरूपं साङ्ख्यन्यायादिशास्त्रेष्वन्यथान्यथा वर्णितम्। अतो महावाक्यानुसारेण ज्ञानस्वरूपमिदानीं वर्ण्यते – जीवेश्वरयोरुपाधिभूताविद्यामायाभागौ परित्यज्य तयोः प्रतीयमानं भेदं च विहाय तयोर्ज्ञानरूपो यश्चैतन्यांशस्तं भेदरहितं जानीहि। इत्थं महावाक्येषु भागत्यागलक्षणया जीवेश्वरयोरेकत्वं जानीयाः। इत्येवं वेदसारं वारं वारं विचिन्त्यात्मानं गोपाय। देहादिष्वासक्तिं कुर्वन् प्रपञ्चं मा पश्य।

उक्तमेवार्थं पुनरपि सङ्क्षिप्याह गुरुः – हे सोम्य, त्वं विनाशिदेहादिसङ्घातरूपो नासि। किन्त्वविनाशिब्रह्मरूपोऽसि। *१ वृक्षरूपः संसारो मिथ्या।

*१. (१) सर्वेषामप्युत्कृष्टत्वादुच्छ्रितं मायाविशिष्टं ब्रह्म यस्य मूलम्, (२) महत्तत्त्वं यस्याङ्कुरः, (३) अहङ्कारो यस्य स्कन्धः, (४) पञ्चतन्मात्रा यस्य शाखाः, (५) उक्तं महत्तत्त्वादिकं सर्वमपि कार्यरूपत्वेन निकृष्टत्वाद्यस्याधः शाखाः, (६) वेदादिरूपं शास्त्रं प्ररोचनरूपमधुरवाक्यैर्यस्यानित्यत्वादिदोषाच्छादकत्वात्पर्णानि, (७) चत्वारः पुरुषार्थाः यस्य रसाः, (८) धर्माधर्मौ यस्य पुष्पम्, (९) जननमरणादिदुःखं यस्य फलम्, (१०) अज्ञानिजीवरूपः पक्षी यस्य भोक्ता, (११) वैराग्येण तीक्ष्णीकृतज्ञानरूपः कुठारो यस्य छेदकः, एतादृशोऽयं संसाररूपोऽश्वत्थवृक्षः। इत्थं शास्त्रेषु संसाररूपो वृक्षो बहुधा वर्णितः।

यथा नभसि नैल्यमधोमुखेन्द्रनीलकटाहरूपत्वादिकं चाविद्यमानमपि मिथ्या प्रतीयते तथा संसारोऽप्यात्मन्यविद्यमानोऽपि मिथ्या प्रतीयते। तथा चोक्तं भागवते –

अविद्यमानोऽप्यवभासते द्वयो
धातुर्धिया स्वप्नमनोरथौ यथा।
तत्कर्मसङ्कल्पविकल्पकं मनो
बुधो निरुन्ध्यादभयं ततः स्यात्॥ भा. पु. ११.२.३८॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषानस्य स्वप्नानर्थागमो यथा॥ भा. पु. ११.२८.१३॥

इत्यादि। श्रुतिस्मृत्योः संसारस्य वृक्षरूपककल्पनादत्रापि वृक्षशब्दः संसारे प्रयुक्तः।