ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ४१४-४१७ उपदिष्टार्थसङ्ग्रहः
- ४१५-४१६ ज्ञानसाधनवर्णनम्


आवर्तः ४१६ – ज्ञानस्य बहिरङ्गसाधनोपदेशः

विवेकः, वैराग्यम्, शमादिषट्कसम्पत्तिः, मुमुक्षुत्वम्, इत्येतानि चत्वारि ज्ञानस्य साधनानि। तेषु विवेकः प्रधानं साधनम्। अतः प्रथमं तस्य कीर्तनम्। विवेकेनैव वैराग्यादिकमुत्पद्यते। अतश्चाचार्यः शिष्याय विवेकमेव प्रथममुपदिशति – हे सोम्य, संसारसमुद्रं मृगतृष्णिकाजलसमं मिथ्येति वारं वारं चिन्तय। संसारस्य मिथ्यात्वोक्त्या मिथ्यासंसारकल्पनाधिष्ठानभूत आत्मा न मिथ्या। किन्तु सत्य इत्युक्तं भवति। ऐन्द्रजालिकेन प्रदर्श्यमानानद्भुतान् पदार्थान् पश्यन्तं पुत्रं पितैवमुवाच ‘ऐन्द्रजालिकेन प्रदर्श्यमानमाम्रवृक्षादिकं सर्वं मिथ्या’ इति। पितुरिदं वचनं शृण्वन् पुत्र ऐन्द्रजालिकमपि मिथ्येति न जानाति। किन्तु सत्यमेव तं जानाति। एवमेव ‘जगन्मिथ्या’ इत्युपदेशेन ‘आत्मा सत्यः’ इति शिष्यो विजानात्वित्यभिप्रायेणैवाचार्यः संसारसमुद्रं मिथ्येत्यकथयत्।

इति ‘जगन्मिथ्या, आत्मा सत्यः’ इति गुरुर्विवेकमुपदिदेश। विवेके सिद्धे इतरसाधनानि स्वयमेवोपदेशं विनैव सिद्ध्येयुः। अतश्च विवेकोपदेशादेवेतरसाधनोपदेशोऽप्यर्थात्सिद्धः। इति ज्ञानस्य बहिरङ्गसाधनानि।

ज्ञानस्यान्तरङ्गसाधनं तु श्रवणादिकमेव। हे शिष्य श्रवणरूपसाधनेन ज्ञानरूपं भानुमासाद्याज्ञानरूपं तमो विनाशय। तम इत्यन्धकारस्याज्ञानस्य च नाम। तत्रान्धकार उपमानमज्ञानमुपमेयम्। सादृश्यानुयोगि उपमेयम्। सादृश्यप्रतियोगि उपमानम् इति ज्ञेयम्।