- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ४२०-४६३ महावाक्यार्थज्ञानम्
- ४२०-४४२ लक्षणानिरूपणम्
आवर्तः ४२२ – गुरोरुत्तरम् – शक्तिलक्षणाख्यवृत्तिद्वयनिर्देशः
हे सोम्य, ऐकाग्र्येण शृणु मम वाक्यम्। लक्षणां तद्भेदांश्च जानीयाः। पदस्यार्थेन सह यः संबन्धस्तस्य *१ वृत्तिः इति संज्ञा।
*१. वत्सस्य गवा सह संबन्धोऽस्ति। तेन संबन्धेन स वत्सो बह्वीनां गवां मध्ये वर्तमानां स्वमातरं विविच्य ज्ञात्वा तन्निकटमुपसर्पति। संबन्धं विना प्रवृत्तिर्न भवेत्। तया प्रवृत्त्या वत्सस्य गोश्च जन्यजनकभावरूपः संबन्धोऽवगम्यते। तादृशजन्यजनकभावरूपसंबन्धस्य ज्ञानं प्रति हेतुभूता वत्सप्रवृत्तिरपि संबन्ध इत्यभिधीयते।
एवमेव शब्दानां स्वस्वार्थे प्रवृत्तिरपि तयोः (शब्दार्थयोः) कञ्चन संबन्धं विना न भवेत्। तथा च शब्दस्य स्ववाच्यार्थेन सह वाच्यवाचकभावरूपः संबन्धः, लक्ष्यार्थेन सह लक्ष्यलक्षकभावरूपः संबन्धश्चावगम्येते। द्विविधोऽप्ययं संबन्धः स्मार्यस्मारकभावरूपः संबन्ध इत्यप्यभिधीयते। (१) वाच्यरूपोऽथवा लक्ष्यरूपोऽर्थः पदेन स्मरणयोग्यो भवति। तस्मादर्थः स्मार्य इत्युच्यते। (२) वाचकरूपोऽथवा लक्षकरूपः शब्दस्तस्यार्थस्य स्मारणे योग्यो भवति, तस्माच्छब्दः स्मारक इति कीर्त्यते। तस्माच्छब्दार्थयोः परस्परं स्मारकस्मार्यभावरूपः संबन्धोऽस्ति। तादृशसंबन्धस्य ज्ञानं प्रति हेतुभूता शब्दस्य स्वार्थे या प्रवृत्तिः सापि शब्दस्यार्थेन सह संबन्ध इति वर्ण्यते। तादृशप्रवृत्तिरूपसंबन्ध एव शब्दस्य वृत्तिरित्युच्यते। तादृशवृत्तिरूपः संबन्धः क्वचित् शक्तिरूपः। क्वचिल्लक्षणारूपश्च भवति।
इदमत्र प्रसङ्गादवधेयम् – (१) वेदान्तशास्त्रे वृत्तिशब्दोऽन्तःकरणस्य अथवा अविद्यायाः परिणामस्य संज्ञा। (२) वर्तनमथवा स्थितिरपि वृत्तिरित्युच्यते क्वचित्। (३) जीवनमपि वृत्तिरित्यभिधीयते। (४) प्राणव्यापारोऽपि वृत्तिरिति वर्ण्यते। (५) व्याकरणशास्त्रस्य कश्चन विभागोऽपि वृत्तिरित्याख्यायते। एष्वर्थेषु मध्ये शब्दस्यार्थेन संबन्धरूपा वृत्तिरेवास्मिन् शास्त्रे वृत्तिशब्दस्यार्थत्वेन ग्रहीतुं योग्या, नान्योऽर्थः।
सा च वृत्तिः *१ ‘शक्तिः’, *२ ‘लक्षणा’इति द्विविधा। तयोः स्वरूपंसलक्षणं वर्ण्यमानं शृण्विति गुरुरवदत्।
*१. शब्दगतं यत् स्वार्थावबोधनसामर्थ्यं तदेव शब्दस्य शक्तिः इति वर्ण्यते। सा शक्तिरूपा वृत्तिः कपालद्वयमध्यस्थितकपालसंयोगवत्, कार्यकारणात्मकपदार्थद्वयमध्यस्थितसमवायसंबन्धवत्, अथवा तादात्म्यसंबन्धवच्च शब्दार्थयोर्मध्येऽस्ति। तस्मात् सेयं शक्तिः शब्दस्यार्थेन सह विद्यमानः शक्तिवृत्तिरूपः साक्षात्संबन्धो भवति। इयं च साक्षात्संबन्धरूपा शक्तिवृत्तिः (१) योगः, (२) रूढिः, (३) योगरूढिः इति त्रिविधा।
(१) यस्य शब्दस्य स्वावयवयोगेन (मेलनेन) अर्थज्ञानोत्पादनसामर्थ्यमस्ति तस्य शब्दस्य स्वार्थेन सह योगशक्तिरूपः संबन्धोऽस्ति। स संबन्ध एव शब्दस्य योगवृत्तिरिति वर्ण्यते। यथा ‘पादरक्षा’ इति पदे ‘पाद’ ‘रक्षा’ इत्यवयवद्वयमस्ति। तयोर्द्वयोरवयवयोर्योगेन (मेलनेन) कण्टकादिभ्यः पादत्राणयोग्योपानदादिरूपार्थस्य ज्ञानं जायते। तस्मात् ‘पादरक्षा’ इति पदस्य पादरक्षणयोग्योपानदादिरूपतदर्थेन सह योगशक्तिरूपः संबन्धोऽस्ति।
(२) यस्य पदस्यार्थज्ञानमवयवैर्न जायते, किन्तु ‘अस्य पदस्यायमेवार्थः’ इत्येवं पदार्थबोधनविषयकः सङ्केतः (परिभाषा) यस्य पदस्य येनार्थेनास्ति, तस्य पदस्य तेनार्थेन सह रूढिशक्तिरूपः संबन्धोऽस्ति। स एव संबन्धः शब्दस्य रूढिवृत्तिः इत्यभिधीयते। यथा ‘उष्णीषः’ इति पदस्यावयवेभ्यो न कस्याप्यर्थस्य बोधो जायते। किन्तु ‘उष्णीषः’ इति पदात् शिरोवेष्टनरूपोऽर्थो लोके सङ्केतपूर्वकं ज्ञायते। तथा चोष्णीषपदस्य शिरोवे - ष्टनरूपार्थेन सह रूढिशक्तिरूपः संबन्धोऽस्ति।
(३) यस्य पदस्यावयवैर्यस्यार्थस्य बोधो जायते तस्य तस्मिन्नर्थे लौकिकसङ्केतोऽप्यस्ति तस्य पदस्य तेनार्थेन सह योगरूढिरित्युभयरूपा शक्तिरस्ति। यथा ‘अङ्गरक्षा’ इति पदे ‘अङ्ग’ ‘रक्षा’ इत्यवयवद्वयमस्ति। तयोर्योगेन (मेलनेन) ‘चोल (कञ्चुक)’ इत्यर्थस्य ज्ञानं भवति। पादरूपाङ्गस्य रक्षणकर्त्री पादुकां बोधयितुं ‘अङ्गरक्षा’ पदं न प्रयुञ्जीत किन्तु चोल (कञ्चुक) रूपमर्थं बोधयितुमेवेदं पदं प्रयुञ्जीत। अस्मिन् कञ्चुकरूपेऽर्थे ‘अङ्गरक्षा’ पदस्य लौकिकः सङ्केतोऽप्यस्ति। तस्मात् ‘अङ्गरक्षा’ पदस्य स्वार्थेन योगरूढिरित्युभयरूपशक्तिसंबन्धोऽस्ति। [पङ्कजादिपदमत्र सह प्रसिद्धोदाहरणम्। ] सेयं शब्दस्य त्रिविधा शक्तिवृत्तिः मुख्यवृत्तिः इत्युच्यते।
शब्दस्य शक्तिवृत्तिरूपसंबन्धाज्ज्ञायमानः शब्दस्य साक्षात्संबन्धी योऽर्थः स शक्यार्थ इति वर्ण्यते। यथा ‘पिता’ इति शब्दस्य शक्तिवृत्तिरूपः साक्षात्संबन्धः जनकरूपार्थेन सह वर्तते। तस्मात् पिता इति शब्दस्य शक्तिवृत्तिरूपसंबन्धेन ज्ञातुं योग्यः, साक्षात्संबन्धी च जनकरूपो योऽर्थः स पितृशब्दस्य शक्यार्थ इति कथ्यते।
*२. शक्यार्थसंबन्धिनि वक्तृतात्पर्यविषयीभूते चार्थान्तरे शब्दस्य यः परम्परासंबन्धः स शब्दस्य लक्षणावृत्तिरित्युच्यते। यथा कृतोद्वाहमङ्गलं पितामहसमीपवर्तिनं पौत्रं प्रति सर्वेभ्यः पूर्वं पितरं नमस्कुरु इत्याप्तवाक्यगतेन पितेति शब्देन पितामहबोधनं लक्षणावृत्त्या। तत्र शक्यार्थरूपजनकसंबन्धिनि वक्तृपुरुषतात्पर्यविषयीभूते पितामहरूपार्थान्तरे यः पितृशब्दस्य परम्परासंबन्धः स पितेति शब्दस्य लक्षणावृत्तिः तादृशलक्षणावृत्तिबोध्यः शब्दस्य शक्यार्थद्वारा परम्परया सम्बद्धो योऽर्थः स शब्दस्य लक्ष्यार्थ इत्युच्यते। यथा पितेति शब्दस्य शक्यार्थभूतजनकद्वारा परम्परया सम्बद्धो यः पितामहरूपोऽर्थः स पितेति शब्दस्य लक्ष्यार्थः। यस्य शब्दस्य येनार्थेन साक्षात्संबन्धं विनैवान्यद्वारा संबन्धो वर्तते तस्य शब्दस्य तेनार्थेन सह परम्परासंबन्ध उच्यते। तथा हि, पौत्ररूपतृतीयपुरुषस्य पितामहात्मकप्रथमपुरुषेण सह साक्षात्संबन्धस्य (जन्यजनकभावस्य) अभावेऽपि पुत्रस्य स्वपित्रा सह साक्षात् ( जन्यजनकभावः) संबन्धोऽस्ति। पितुश्च (स्वपित्रा) पितामहेन सह संबन्धोऽस्ति। तस्मात्पौत्रस्य पितामहेन सह पितृद्वारा संबन्धोऽस्ति। अयमेव परम्परासंबन्धः।
तथैव शब्दस्य साक्षात्संबन्धी यः शक्यार्थस्तस्मादन्यः शक्यार्थसंबन्धी च योऽर्थः न तेन सह साक्षात्संबन्धोऽस्ति। अपि तु शब्दस्य शक्तिरूपः संबन्धः शक्यार्थेन सह वर्तते। शक्यार्थस्य च संयोगादिरूपो यः कश्चन संबन्धः वक्तृतात्पर्यविषयभूतेन स्वसम्बद्धेनान्येनार्थेन सह वर्तते। तस्माच्छब्दस्य स्वशक्यसंबन्धिनान्यार्थेन सह शक्यार्थद्वारा संबन्धोऽस्ति। अत एव स परम्परासंबन्ध इत्युच्यते। शब्दस्यायमेव परम्परासंबन्धो लक्षणावृत्तिः। यस्य शब्दस्य परम्परासंबन्धो येनार्थेन भवति स तस्य शब्दस्य लक्ष्यार्थः। इत्थं लक्षणावृत्तेः सामान्यलक्षणमुदाहरणं चोक्तम्। जहल्लक्षणादित्रिविधभेदोदाहरणमुपरिष्टात् (४३० - ४३२) आवर्तटिप्पण्यां वक्ष्यते।