ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्


आवर्तः ४१३ – उपसंहारः

हे सोम्य, मयोपदिष्टः सर्वोऽयमर्थः सर्ववेदसारः। तस्मादत्र त्वं श्रद्धत्स्व। एतदर्थज्ञानेन जननमरणप्रवाहरूपोऽपारो यः संसारमहोदधिस्तस्य तरणमनायासेन ते सिद्ध्येत्।