ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ४१०-४१२ कर्मोपासने दृढबोधस्य न विरोधिनी किन्तु मन्दबोधस्यैव


आवर्तः ४१२ – मन्दबोधस्य कर्मोपासनयोश्च विरोध एव

मन्दबोधस्य त्वाभासरूपे अपि कर्मोपासने विरोधिनी। संशयादिसहितो बोधो मन्दबोध इत्युच्यते। यस्यान्तः करणे ‘आत्मा असङ्गो वा, किं वा न तथा’ इति कदाचित्संशयो जायते स पुरुषः ‘आत्मा असङ्ग एव, न मे कर्तव्यं किञ्चिदप्यस्ति’ इति वारं वारमनुसन्धानं कुर्यात्। एवमनुचिन्तयतः कालेन संशयनिवृत्त्या दृढबोधो जायेत। तथा चिन्तनमकुर्वन् यदि कर्मोपासने एवानुतिष्ठेत्तदा जातोऽपि मन्दबोधो दूरीभवेत्, ‘अहं कर्ता भोक्ता’ इति विपरीतनिश्चय एव दृढीभवेत्। तस्मान्मन्दबोधोदयात् पूर्वमेव कर्मोपासने अनुष्ठेये मन्दबोधोदयानन्तरं न ते अनुष्ठेये।

मन्दबोधः पुरुषः कर्मोपासने अनुतिष्ठति चेत्तदा तस्य जातोऽपि मन्दबोधो नश्यतीत्यत्रायं दृष्टान्तः – यथा पक्षिणी शिशूनां पक्षोत्पत्तिपर्यन्तमेव स्वाण्डानि सेवते। अभयं यथा भवेत्तथा सम्यग्रक्षतीति यावत्। शिशूनां पक्षोत्पत्त्यनन्तरमण्डानि न रक्षति। यदि पक्षोत्पत्त्यनन्तरमप्यण्डानि रक्षेत्तदा अण्डान्तर्गतजलेनातिसुकुमारशिशुपक्षा द्रवीभूय विनश्येयुः। तथा ज्ञानोत्पत्तेः पूर्वमेव कर्मोपासने अनुष्ठेये। न तु ज्ञानोत्पत्तेरनन्तरमपि। यदि ज्ञानोत्पत्त्यनन्तरमपि कर्मोपासने सेव्यते तदा बालपक्षिन्यायेन मन्दबोधोऽपि नश्येत्। यथा मातृरूपवृद्धपक्षिण्या अण्डसंबन्धेन न कापि हानिस्तथा दृढबोधस्य कर्मोपासनाभ्यां हानिर्न भवति। यथा वृद्धपक्षिण्या अण्डेन कर्तव्य उपकारो नास्ति तथा दृढबोधस्यापि कर्मोपासनाभ्यं कर्तव्य उपकारः नास्ति। तथा च ज्ञानिनो मोक्षार्थमनुष्ठेयं किञ्चिदपि नास्ति। इति ‘मोक्षस्य किं कारणम्’ इति तृतीयप्रश्नस्योत्तरमभिहितम्।