- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ४१०-४१२ कर्मोपासने दृढबोधस्य न विरोधिनी किन्तु मन्दबोधस्यैव
आवर्तः ४११ – ज्ञानिनः कर्म आभासरूपमेव
यथा ज्ञानिनो भोजनादिरूपो व्यवहारो न ज्ञानस्य विरोधी तथा ‘आत्मा असङ्गः क्रियाः सर्वा मनोवाक्कायाश्रिताः’ इति ज्ञात्वा क्रियमाणे कर्मोपासने न ज्ञानस्य विरोधिनी। यदि विद्वानसङ्गत्वेन ज्ञातमात्मानं कर्तेति मत्वा कर्मोपासने कुर्यात्तदा ज्ञानस्य ते कर्मोपासने विरोधिनी भवेताम्। सोऽयमात्मनोऽसङ्गत्वविषयको दृढनिश्चयो विदुषः कर्मोपासनाभ्यां न दूरीभवति। तस्मात् आभासरूपे कर्मोपासने दृढबोधस्य न विरोधिनी। अत एव जनकादय *२ आभासरूपं कर्मानुष्ठितवन्तः।
*२. ‘आत्मा असङ्गः। सर्वाः क्रिया मनोवाक्कायाश्रिताः’ इति ज्ञात्वा क्रियमाणे कर्मोपासने आभासरूपे भवतः।
आत्मानमसङ्गं ज्ञात्वेतरव्यवहारवत् वैदिकशुभकर्माद्यनुष्ठानमपि देहादिधर्म इत्येव ज्ञात्वा विदुषा क्रियमाणं शुभं कर्माप्याभासरूपमेव। तस्यापि ज्ञानेन सह विरोधो नास्ति। भाष्यकारादिभिः कर्मोपासनयोर्ज्ञानेन यो विरोध उक्तः सः ‘आत्मा कर्ता भोक्ता च’ इति ज्ञानपूर्वकं क्रियमाणकर्मोपासनविषयः। न त्वाभासरूपकर्मोपासनविषयः।