- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८८-४१९ कर्मोपासने दृढबोधस्य न विरोधिनी किन्तु मन्दबोधस्यैव
आवर्तः ४१० – दृढबोधस्य कर्मोपासनयोश्चाविरोधः
यद्यपि कर्मोपासने अप्यन्तःकरणस्य शुद्धिनैश्चल्यसम्पादनद्वारा ज्ञानोत्पत्तिं प्रति हेतू भवतस्तथापि ज्ञानोत्पत्तेरनन्तरं कर्मोपासनयोरनुष्ठाने उत्पन्नमपि ज्ञानं नश्येदिति हेतोस्ते ज्ञानविरोधिनी। न ज्ञानेच्छाहेतू भवतः।
(१) ‘अहं कर्ता, यज्ञादिकं मया कर्तव्यम्, यज्ञादेः स्वर्गः फलम्’ इति भेदबुद्ध्या कर्मानुष्ठीयते। (२) ‘अहमुपासकः, देव उपास्यः’ इति भेदबुद्ध्योपसानमनुष्ठीयते। ते द्वे अपि बुद्धी सर्वं खल्विदं ब्रह्म इति बुद्धिं दूरीकृत्यैव भवतः। तस्मात्कर्मोपासने ज्ञानस्य विरोधिनी।
यद्यपि ज्ञानी आत्मानमसङ्गतया जानाति तथापि भोजनादिरूपं देहव्यवहारं वा, जनकादिवत् ततोऽप्यधिकं राज्यपालनादिव्यवहारं वा करोत्येव। तस्य व्यवहारस्य ज्ञानं न विरोधि भवति। न वा व्यवहारो ज्ञानस्य विरोधि भवति। तथा हि, यदात्मस्वरूपं ज्ञानेनासङ्गतया ज्ञातं तस्मिन्नात्मनि यदि व्यवहारः प्रतीतो भवेत् तदा व्यवहारस्य ज्ञानं विरोधि स्यात्। ज्ञानस्य च *१ व्यवहारो विरोधी भवेत्। विदुषस्तु स व्यवहार आत्मनि न प्रतीयते। ‘सर्वो व्यवहारो देहाद्याश्रयः। व्यवहारसहितदेहादीनामात्मनि संबन्धो नास्ति इत्यनया बुद्ध्या ज्ञानी सर्वव्यवहारान् करोति। अतो विदुषः प्रवृत्तिरपि निवृत्तिरेव।
*१. जगत्सत्यत्वमापाद्य प्रारब्धं भोजयेद्यदि।
सदा विरोधि विद्याया भोगमात्रान्न सत्यता॥ प.तृ. १७७॥
यदि विद्यापह्नुवीत जगत्प्रारब्धघातिनी।
तदा स्यान्न तु मायात्वबोधेन तदपह्नवः॥ १७९॥
मायामयः प्रपञ्चोऽयमात्मा चैतन्यरूपधृक्।
इति बोधे विरोधः को लौकिकव्यवहारिणः॥ प. ध्या. ८८॥
अपेक्षते व्यवहृतिर्न प्रपञ्चस्य वस्तुताम्।
नाप्यात्मजाड्यं किं त्वेषा साधनान्येव काङ्क्षति॥ ८९॥
मनोवाक्कायतद्बाह्यपदार्थाः साधनानि तान्।
तत्त्वविन्नोपमृद्गाति व्यवहारोऽस्य नो कुतः॥ ९०॥
ज्ञानं प्रारब्धजन्यव्यवहाराविरोधीति भावः।