ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ४०८-४०९ दृढज्ञानिनामदृढज्ञानिनामुत्तमजिज्ञासूनां च कर्मोपासनयोरनधिकारः


आवर्तः ४०९ – असज्जातबोधो य उत्तमजिज्ञासुः, यश्च मन्दजिज्ञासुस्तयोरुभयोरपि कर्मोपासनयोरनधिकारः

(१) यस्य बोधो न सञ्जातः। किन्तु तीव्रतरा आत्मज्ञानेच्छास्ति, भोगेच्छा च नास्ति तस्यान्तःकरणं शुद्धमेवास्ते। तस्मात् स उत्तमाजिज्ञासुरित्युच्यते। तस्य बोधसिद्धये श्रवणादिकमेवानुष्ठेयम्, न कर्मोपासने। कर्मोपासनयोः फलभूतान्तःकरणशुद्धिनैश्चल्ययोस्तस्य सिद्धत्वात्।

(२) यो ज्ञाने सामान्येच्छया श्रवणादौ प्रवर्तते। यस्य चान्तःकरणं भोगे आसक्तं स मन्दजिज्ञासुः। सोऽपि श्रवणं परित्यज्य पुनरपि कर्मोपासनयोः प्रवर्तितुं *१ नाहर्ति। कर्मोपासनफलभूतान्तःकरणशुद्धिनैश्चल्ये श्रवणेनैव तस्य सिद्धे भवतः। श्रवणस्यावृत्त्यैवान्तःकरणदोषस्य निवृत्त्या तस्येह जन्मनि जन्मान्तरे वा ब्रह्मलोके वा ज्ञानं सिद्ध्येत्। आवृत्तिर्नामाभ्यासः। पुनःपुनरनुष्ठानम्। साधनानुष्ठाने प्रयत्नधारेति यावत्। श्रवणं परित्यज्य कर्मोपासनयोः प्रवर्तमान *२ आरूढपतित इत्यभिधीयते।

*१. निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस्त्यजेत्।
जिज्ञासायां संप्रवृत्तो नाद्रियेत् कर्मचोदनाम्॥

*२. मोक्षसोपानमारुह्य ततश्युतस्यारूढपतितस्य विषये ‘करस्थं पायसं त्यक्त्वा कूर्परं लेढि दुर्मतिः’ इति प्रसिद्धः करंलेढिन्यायः प्रसज्यते।

उपेक्ष्य तत्तीर्थयात्राजपादीनेव कुर्वताम्।
पिण्डं समुत्सृज्य करं लेढीति न्याय आपतेत्॥ प. ध्या. १३०॥

उपेक्ष्य = अपरोक्षज्ञानसाधननिर्गुणोपासनश्रवणादिकं परित्यज्येत्यर्थः।

इत्थं च ज्ञानिनः, उत्तमजिज्ञासोश्च कर्मोपासनयोरधिकारो नास्ति। मन्दजिज्ञासुर्यो वेदान्तश्रवणे प्रवृत्तस्तस्याप्यधिकारो नास्ति। यस्य ज्ञाने इच्छास्ति परन्तु बुद्धिर्भोगे आसक्ता, तस्मात् श्रवणे न प्रवर्तते तस्य मन्दजिज्ञासोः निष्कामकर्मण्युपासने चाधिकारोऽस्ति। यस्य तु भोगे एवेच्छास्ति ज्ञानेच्छा नास्ति स बहिर्मुख इति कीर्त्यते। तस्य सकामकर्मण्यप्यधिकारोऽस्ति।

तस्माज्ज्ञानिनः कर्मोपासनयोरधिकारो नास्ति। कर्मोपासने ज्ञानस्य विरोधिनी।