ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्

- ३८८-४१९ दृढज्ञानिनामदृढज्ञानिनामुत्तमजिज्ञासूनां च कर्मोपासनयोरनधिकारः

आवर्तः ४०८ – मन्दबोधवानुत्तमजिज्ञासुरपि कर्मोपासनयोर्न प्रवर्तते

(१) यस्य तु मन्दबोधोऽस्ति स मनननिदिध्यासने एव कुर्यात्। तेन कर्मोपासने न कर्तव्ये। यस्य मन्दबोधोऽस्ति स उत्तमजिज्ञासुः। तस्य मनननिदिध्यासने विना कर्तव्यान्तरं नास्ति। सोऽयमर्थः शारीरके सूत्रकारैर्भाष्यकारैश्च प्रतिपादितः (ब्र. सू. भा. ४.१.२)।

(२) विदुषा तु मनननिदिध्यासनेऽपि चोदनया *१ कर्तव्यत्वबुद्ध्या नानुष्ठेये।

*१. शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माच्छृणोम्यहम्।
मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः॥ प.तृ. २६०॥

विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्ययात्।
देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम्॥ २६१॥

तत्त्वबोधशून्यस्य श्रवणम्, संशयवतो मननम्, विपर्यस्तस्य (अन्यथाप्रतिपन्नस्य) निदिध्यासनं च कर्तव्यत्वेन चोदितम्। अज्ञानसंशयविपर्यासशून्यस्य तत्त्वविदो न किञ्चिदपि कर्तव्यमस्ति।

किन्तु जीवन्मुक्त्यानन्दाय मनननिदिध्यासनयोर्विद्वान् प्रवर्तते। सा च प्रवृत्तिर्विदुषः स्वेच्छयैव न चोदनया। ‘यद्यहं वेदाज्ञारूपं कर्म न कुर्यां तदा मे जननमरणादिरूपः संसारो भवेत् इति बुद्ध्या क्रियमाणमेव कर्म कर्तव्यम् इत्युच्यते। सेयं जन्मादिविषयिणी बुद्धिर्विदुषो न भवति। तस्मात् स्वेच्छयैव विद्वान् मनननिदिध्यासने करोति। अतस्ते मनननिदिध्यासने ‘कर्तव्ये’ इति व्यपदेशानर्हे। एवं च यस्य मन्दबोधो वा दृढबोधो वा सञ्जातस्तस्य कर्मोपासने ‘कर्तव्ये’ न भवतः।