ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्


आवर्तः ४०७ – ज्ञानिनाप्यन्तःकरणचाञ्चल्यनिवृत्तये उपासनमनुष्ठेयमित्याक्षेपस्तत्समाधानं च

यद्यत्रैवमाशङ्क्येत – रागद्वेषादयोऽन्तःकरणस्य सहजा धर्माः यावत्कालपर्यन्तमन्तःकरणमस्ति तावत्कालपर्यन्तं रागद्वेषादयो ज्ञानिनोऽपि सर्वथा न नश्येयुः। ताभ्यां रागद्वेषाभ्यां ज्ञानिनोऽप्यन्तःकरणं चाञ्चल्यमापद्येत। तस्माच्चाञ्चल्यनिवृत्तये ज्ञानिनाप्युपासनमवश्यमनुष्ठेयम्। यद्यप्यन्तःकरणचाञ्चल्येन ज्ञानिनो विदेहमोक्षस्य काचिदपि हानिर्नास्ति तथापि चञ्चलेऽन्तःकरणे स्वरूपानन्दभानं न स्यात्। ततश्चान्तःकरणचाञ्चल्यं जीवन्मुक्तेर्विरोधि। तस्माज्जीवन्मुक्त्यानन्दसिद्धयेऽन्तःकरणस्य चाञ्चल्यनिवृत्त्यर्थमुपासनं ज्ञानिनाप्यनुष्ठेयमेव इति। तन्न सङ्गच्छते यद्यपि दृढबोधो यस्यान्तःकरणेऽस्ति तस्य समाधिविक्षेपावुभावपि तुल्यावेवेति तेन विदुषान्तःकरणनैश्चल्यसम्पादनार्थं न कोऽपि प्रयत्नः कर्तव्यः। तथापि विदुषः प्रवृत्तिनिवृत्ती प्रारब्धाधीने। प्रारब्धं कर्म प्रतिप्राणि विलक्षणम् – (१) जनकादेरिव केषाञ्चिद्विदुषां प्रारब्धं भोगहेतुर्भवति। यस्य प्रारब्धं भोगहेतुस्तस्य प्रारब्धकर्मवशाद्भोगेच्छा भोगसाधनसम्पादने प्रयत्नश्च जायते। (२) शुकवामदेवादीनामिव केषाञ्चिद्विदुषां प्रारब्धं निवृत्तिहेतुर्भवति। यस्य प्रारब्धं निवृत्तिहेतुस्तस्य जीवन्मुक्त्यानन्देच्छा भोगान्तरे वैमनस्यं चोदेति। जीवन्मुक्त्यानन्दाकाङ्क्षी सततं ब्रह्माकारवृत्त्यावृत्तिनिमित्तं वेदान्तार्थचिन्तनमेव कुर्यात्, नोपासनम्। न ह्यन्तः करणनैश्चल्यमात्रेण ब्रह्मानन्दस्य विशेषरूपेण भानं भवति। किन्तु ब्रह्माकारवृत्त्यैव। सा च ब्रह्माकारा वृत्तिः सततं वेदान्तार्थचिन्तनेनैव जायते। नोपासनेन। विदुषोऽन्तः करणचाञ्चल्यमपि वेदान्तार्थचिन्तनेनैव दूरीभवति। अतश्च विदुषोऽन्तःकरणनैश्चल्यसम्पादनाय नोपासने प्रवृत्तिर्जायते। तथा च यस्य दृढबोधः सञ्जातस्तस्य कर्मोपासनयोः प्रवृत्तिर्न भवति।