ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्

- ३८८-४१९ उपदिष्टार्थसङ्ग्रहः

आवर्तः ४१४ – जीवस्वरूपम्

जीवस्वरूपम् – ‘जगत्कर्तेश्वरः। स तव स्वरूपान्न भिन्नः। त्वं सच्चिदानन्दरूपं ब्रह्मैवासि’ इति प्रागुपदिष्टमेवार्थं पुनरप्याचार्यः कृपया शिष्यं प्रति सङ्ग्रहेणोपदिशति। ‘हे सोम्य, त्वं दैन्यं परित्यज्य निजस्वरूपं जानीयाः। जन्मादिरहितं शुद्धं ब्रह्मैव त्वमसि। दृश्यं समस्तं जगत् त्वमेव प्रकाशयसि। स्वाज्ञानेन जगत्सर्वं त्वमेव सृजसि। पुनः समस्तं जगत्संहृत्य त्वमविनाशी अवशिष्यसे। मिथ्याप्रपञ्चं दृष्ट्वेषदपि त्वं न खिद्यसे। त्वं देवानामपि देवोऽसि। त्वमखण्डानन्दघनोऽसि। जगज्जीवेश्वरादयस्त्वयि मायया स्वाप्नार्थवत् रज्जुसर्पशुक्तिरजतादिवच्च प्रतीयन्ते इति। अत्रै श्लोका भवन्ति –

दैन्यं परित्यज्य निजात्मरूपं
सच्चित्सुखं पश्य सदाद्वितीयम्।
जन्मादिशून्यं परमेव तत्त्वं
ब्रह्मासि शुद्धं निजबोधरूपम्॥

दृश्यं समस्तं दृगभिन्न आत्मा
त्वमेव विद्योतयसि स्वभासा।
स्वाज्ञानतः सर्वमिदं विसृज्य
पश्चाच्च संहृत्य विशिष्यसेऽजः॥

मिथ्याप्रपञ्चं दृष्ट्वापि न किञ्चित्विद्यते तव।
मनो देवादिदेवोऽपि त्वमेव सुखनीरधिः॥

त्वन्मायावशतो भाति जगज्जीवेशविभ्रमः।
स्वप्नवद्रज्जुसर्पादिशुक्तिकारजतादिवत्॥

इति (ग्रन्थकृत एवैते श्लोकाः)।