- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
- ३८८-४१९ ज्ञानिनः पापचाञ्चल्ययोरभावात् तस्य कर्मोपासने अनुपयुक्ते
आवर्तः ४०५ – शुभकर्मत्यागेनाशुभकर्मानुष्ठानेन वा ज्ञानिनः पापासंभवः
यदुक्तं ‘ज्ञानिनः कर्मत्यागेन पापं संभवेत्’ इति तदयुक्तम्। तथा हि, (१) शुभकर्मत्यागः *१ पापहेतुर्न भवति।
१. “नासतो विद्यते भावः” (भ.गी. २.१६) “कथमसतः सज्जायेत” (छा. ६.२.२) इत्यादिवचनेभ्यो नाभावाद्भावोत्पत्तिः संभवति।
किन्तु निषिद्धकर्मानुष्ठानमेव पापहेतुः। भाष्यकारादिभिरयमर्थो बहुधा प्रतिपादितः। तस्मात्कर्मत्यागेन पापं न संभवेत्। (२) ज्ञानिनः सर्वप्रकारैः पापासंभव एव। तथा हि, पुण्यपापे तदाश्रयान्तःकरणं च परमार्थतो न सन्ति। “अतोऽन्यदार्तम्” (बृ. ३.७.२३) “न तु तद्वितीयमस्ति” (बृ. ४.३.२३.३) “यत्र नान्यत्पश्यति” (छा. ७.२.४१) इत्यादिश्रुतिभ्यः। अविद्यया तानि मिथ्या प्रतीयन्ते। साविद्या मिथ्याप्रतीतिश्च ज्ञानवतो न स्तः। तस्माच्छुभकर्मत्यागेनाशुभकर्मानुष्ठानेन वा ज्ञानिनः पापं न संभवेत्।
अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम्।
सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत्॥
यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम्।
सुप्तोत्थितस्य किं तत् स्यात् स्वर्गाय नरकाय वा॥
पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः।
कुतो ममाखण्डसुखानुभूतेः
ब्रूते ह्यनन्वागतमित्यपि श्रुतिः॥ वि. चू. ५०३॥
हयमेधसहस्राण्यथवा
कुरुताद्ब्रह्महतिलक्षाणि।
परमार्थविन्न पुण्यैर्न च
पापैः स्पृश्यते विमलः॥ इत्यभियुक्तोक्तेः।(४०६)