- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
आवर्तः ४०४ – कर्मोपासने न ज्ञानरक्षणे उपयुज्यते, ज्ञानविरोधित्वात्तयोः
यदुक्तं ज्ञानरक्षणनिमित्तं कर्मोपासने अनुष्ठेये। यथा जलेनोत्पन्नो वृक्षो जलेन रक्ष्यते। जलसंबन्धाभावे वृद्धोऽपि वृक्षः शुष्यति, तथा कर्मोपासनाभ्यामुत्पन्नं ज्ञानं कर्मोपासनाभ्यं रक्षितं भवति। यदि ज्ञानी कर्मोपासने न कुर्यात्तदा पुनरप्यन्तःकरणमशुद्धं चञ्चलं च भवेत्। शुष्कभूमौ वृक्ष इवाशुद्धे चञ्चले चान्तःकरणे पूर्वोत्पन्नमपि ज्ञानं नश्येत्। तस्माज्ज्ञानवानपि कर्मोपासने अनुतिष्ठेत् इति। तन्न युज्यते आभाससहिते अथवा चैतन्यविशिष्टेऽन्तःकरणे ‘अहमसङ्गं ब्रह्मैवास्मि’ इति या वृत्तिरुदेति सैव वेदान्तस्य फलरूपं ज्ञानम्। तच्च कर्मोपासने विना स्वयमेव नश्यति। अथवा चैतन्यस्वरूपे ज्ञाने लीनं भवति।
अथ यद्युच्यते – स्वरूपभूतं ज्ञानं नित्यम्। तस्मात्तस्य नाशो वा रक्षणं वा न युज्यते। परन्तु वेदान्तफलभूतं ब्रह्मविद्यारूपं ज्ञानं कर्मोपासनाभ्यामुत्पद्यते। कर्मोपासनपरित्यागे उत्पन्नापि ब्रह्मविद्या नश्यति। तस्मात्तस्यापि रक्षणाय कर्मोपासने ज्ञानिनाप्यनुष्ठेये इति। तदपि न संभवति। (१) सकृदुत्पन्नया अन्तःकरणस्य ब्रह्माकारवृत्त्या तत्क्षणे एवाज्ञानभ्रान्त्योर्नाशरूपं फलं सिद्ध्यति। अज्ञानभ्रान्त्योर्नाशानन्तरं पुनरपि वृत्तेः संरक्षणे नास्त्युपयोगः। (२) कर्मोपासनाभ्यामन्तःकरणवृत्तेः संरक्षणमप्ययुक्तमेव। तथा हि, कर्मोपासनयोरनुष्ठाने क्रियमाणे कर्मोपासनसामग्रीविषयकवृत्तिरूपं ज्ञानमेव भवेत्। न तु ब्रह्मज्ञानम्। वृत्त्यन्तरोत्पत्तौ प्रथमा वृत्तिर्नावतिष्ठेतेति नियमात्। तस्मात्कर्मोपासने ज्ञानरूपवृत्त्युत्पत्तौ परम्परया हेतू भवतः। उत्पन्नवृत्तेस्तु विरोधिनी ते। तस्मात्कर्मोपासनाभ्यां ज्ञानरक्षणं न युज्यते।