ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्


आवर्तः ४०३ – कर्मोपासने ज्ञानस्य साधने न मोक्षस्य

वृक्षदृष्टान्तोऽप्यसङ्गतः – पूर्वपक्षिणा प्रदर्शितो वृक्षदृष्टान्तोऽसङ्गतः। यद्यपि जलसेचनं वृक्षस्योत्पत्तौ रक्षणे च हेतुस्तथापि फलोत्पत्तौ न हेतुः। तथा हि वृद्धो यो वृक्षस्तस्य जलसेचनं रक्षणायैव न फलाय। जलेन पुष्टो यो वृक्षः स फलहेतुरिति सत्यम्। न तु जलसेचनं फलोत्पत्तिं प्रति हेतुः। एवमेव कर्मोपासने ज्ञानोत्पत्तौ हेतू भवतः, न तु मोक्षे। तस्माज्ज्ञानोत्पत्तेः प्रागेवान्तःकरणस्य शुद्धये चाञ्चल्यनिवृत्तये च कर्मोपासने अनुष्ठेये। ज्ञानोत्पत्तेरनन्तरं मोक्षनिमित्तं न ते अनुष्ठेये।

ज्ञानोत्पत्तेः पूर्वमप्यन्तः करणे यावत्पर्यन्तं मलविक्षेपौ स्तस्तावत्पर्यन्तमेव ते अनुष्ठेये। यस्यान्तःकरणं शुद्धं निश्चलं च जातं स जिज्ञासुः श्रवणविरोधिनी कर्मोपासने त्यजेदेव। विविदिषासन्न्यासं कुर्यादिति यावत्।

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।
योगारूढस्य तस्यैव शमः : कारणमुच्यते॥ भ.गी. ६.३॥

जिज्ञासायां संप्रवृत्तो नाद्रियेत्कर्मचोदनाम्॥
चित्तस्य शान्तये कर्म न तु वस्तूपलब्धये।
वस्तुसिद्धिर्विचारेण नान्यथा कर्मकोटिभिः॥ वि. चू. ११॥

कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते।
तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः॥

इत्यादिवचनेभ्यः। शमः = सन्यासः। मलं नाम पापम्। तच्चाशुभवासनाया हेतुः। यावत्पर्यन्तं मलमस्ति तावत्पर्यन्तमशुभवासनास्ति। यदाशुभवासना नोदेति तदा मलाभावो निश्चेयः। अन्तःकरणस्य चाञ्चल्यैकाये ह्यनुभवसिद्धे। तस्मादुत्तमजिज्ञासोर्विदुषो विषये कर्मोपासने निष्प्रयोजने।