ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्


आवर्तः ४०२ – केवलं ज्ञानमेव मोक्षसाधनमिति शास्त्रवचनमपि

ज्ञानफलस्य मोक्षस्य स्वर्गादिवल्लोकविशेषत्ववर्णनेनादृष्टरूपत्वाङ्गीकारे वेदवाक्यविरोधः स्यात्। “न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति” (बृ. ४.४.६) “अत्र ब्रह्म समश्नुते” इत्यादिश्रुतयो ज्ञानिनः प्राणा न कमपि लोकं गच्छन्तीति वर्णयन्ति।

मोक्षस्य लोकविशेषरूपत्वाङ्गीकारे स्वर्गादिवन्मोक्षोऽनित्यः स्यात्। मोक्षस्य *१ लोकविशेषरूपत्वाङ्गीकारेऽपि केवलज्ञानेनैव मोक्षप्राप्तिरङ्गीकर्तव्या।

*१. ‘तुष्यतु दुर्जनः’ इति न्यायेन, सिद्धान्ती मोक्षस्य लोकविशेषरूपत्वाङ्गीकारेऽपि स ज्ञानं विना न सिद्ध्यतीत्याह। दुर्बलः पुरुषः प्रबलस्य स्वशत्रोः प्रथमं स्वप्रहारं प्रत्यवकाशं दत्त्वा पश्चात्तं मारयति। एष एव दुर्जनतोषन्याय इत्युच्यते।

शास्त्रप्रतिपादितोऽर्थः शास्त्रानुसारेणैवाङ्गीकर्तव्यः। शास्त्रं च ‘मोक्षः केवलज्ञानेनावाप्यते’ इत्याह।

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ मु. २.२.८॥

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः।
तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति॥ श्वे. ६.२०॥

“तमेव विदित्वातिमृत्युमेति” (श्वे. ३.८)
“तरति शोकमात्मवित्” (छा. ७.३.१)
“तमेवं विद्वानमृत इह भवति” इति।
“ज्ञात्वा देवं मुच्यते सर्वपाशैः। ज्ञात्वा देवं सर्पपाशापहानिः” इति।

तस्मात् केवलं ज्ञानं मोक्षहेतुः। कर्मोपासनज्ञानानि त्रीणि न मोक्षकारणानि।