ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्


आवर्तः ४०१ – ज्ञानफलस्य मोक्षस्य नित्यप्राप्तत्वाज्ज्ञानस्य कर्मोपासनापेक्षाभावः

तमोनिवृत्तौ दीपप्रभावत् स्वफलोत्पत्तौ ब्रह्मविद्या कर्मोपासने नापेक्षते। ब्रह्मविद्यायाः फलमपि स्वर्गादिवद्यदि लोकविशेषरूपादृष्टफलं स्यात्। यदि च शास्त्रं तस्य लोकविशेषस्य केवलब्रह्मविद्यया अप्राप्यत्वं कर्मोपासनसहितब्रह्मविद्याप्राप्यत्वं च बोधयेत्तदा ब्रह्मविद्यापि सेतुदर्शनवत् स्वफलोत्पत्तौ कर्मोपासने अपेक्षेत। न हि ब्रह्मविद्याफलरूपो मोक्षः स्वर्गादिवल्लोकविशेषरूपादृष्टफलम्, किन्तु मोक्षो नित्यप्राप्तः। बन्धस्तु भ्रान्त्या प्रतीयते। तस्या भ्रान्तेर्निवृत्तिरेव ब्रह्मविद्यायाः फलम्। केवलया ब्रह्मविद्यया तस्या भ्रान्तेर्निवृत्तिरस्माकं (ब्रह्मविदां ज्ञानिनां) प्रत्यक्षा। रज्जुज्ञानात् सर्पभ्रान्तेर्निवृत्तिर्यथा सर्वेषां प्रत्यक्षा तद्वत्। तस्मादधिष्ठानज्ञानस्य फलं भ्रान्तिनिवृत्तिरूपं दृष्टमेव फलम्।

दृष्टफलस्योत्पत्तिर्यावत्या सामग्र्या साध्यतया प्रत्यक्षेण प्रतीयते तावती सामग्री दृष्टफलस्य हेतुरित्युच्यते। यथा तुरीतन्तुवेमादिभिः पटस्योत्पत्तिः प्रत्यक्षेति तुरीतन्तुवेमादिकं पटस्य हेतुः। यथा च केवलभोजनेन तृप्तिरूपं फलं प्रत्यक्षमिति केवलभोजनमेव तृप्तिहेतुः। यथा वा केवलाधिष्ठानज्ञानात् भ्रान्तिनिवृत्तिः प्रत्यक्षेण प्रतीयत इत्यधिष्ठानज्ञानमेव भ्रान्तिनिवृत्तेर्हेतुः। यथा रज्जुज्ञानं भ्रान्तिनिवृत्तौ नान्यदपेक्षते तथा बन्धभ्रान्तेरधिष्ठानभूतनित्यमुक्तात्मज्ञानमपि बन्धभ्रान्तिनिवृत्तौ कर्मोपासने नापेक्षते।