- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३८८-४१९ मोक्षस्य कारणं किम्? इति तृतीयप्रश्नस्योत्तरम्
आवर्तः ४०० – सेतुदर्शनदृष्टान्तः प्रकृते न युज्यते
मोक्षं प्रति ज्ञानस्य कर्मोपासनयोः साहाय्यविषये प्रदर्शितः *१ सेतुदर्शनदृष्टान्तो न सङ्गच्छते। सेतुदर्शनं न दृष्टफलस्य हेतुः किन्त्वदृष्टफलस्यैव हेतुः। यत् फलं प्रत्यक्षेण प्रतीयते तत्फलं प्रत्यक्षफलम् इत्युच्यते। यथा भोजनस्य फलभूता तृप्तिः प्रत्यक्षा तद्वत्। तस्माद्भोजनं दृष्टफलस्य हेतुः। तथा सेतुदर्शनेन न किञ्चिदपि प्रत्यक्षं फलं प्रतीयते। किन्तु पापस्य नाशरूपं फलं शास्त्रेणाधिगम्यते। यत् प्रत्यक्षेण न प्रतीयते तददृष्टफलम् इत्युच्यते। तस्मात् यथा यज्ञादिकर्म स्वर्गाद्यदृष्टफलस्य हेतुः तथा सेतुदर्शनमपि पापनाशरूपादृष्टफलस्य हेतुः। योऽदृष्टफलहेतुः तस्य स्वफलोत्पादने यावती सामग्री सहायतया शास्त्रेण चोद्यते तावत्या सामग्र्या सहित एव स फलस्य हेतुर्भवति। न तु स केवलो हेतुर्भवति। अत एव श्रद्धानियमादिसहितमेव सेतुदर्शनं पापनाशरूपफलहेतुः। श्रद्धानियमादिरहितं न फलहेतुः। सेतुदर्शनेन प्रत्यक्षं किमपि फलं न दृश्यते। केवलं शास्त्रात् तत्फलमवगम्यते। शास्त्रं च श्रद्धानियमादिसहितमेव सेतुदर्शनं पापनाशकमित्याह। केवलसेतुदर्शनेन फलोत्पत्तौ न किञ्चिदपि प्रमाणमस्ति। तस्मात् सेतुदर्शनं स्वफलोत्पत्तौ श्रद्धाभक्तिनियमादिकमपेक्षते।
*१. रावणवधाय लङ्कां गन्तुं श्रीरामचन्द्रेण रामेश्वरमारभ्य लङ्कापर्यन्तं समुद्रे सेतुर्बद्धः। सोऽत्र सेतुर्विवक्षितः।