- षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
आवर्तः ३१७ – उपोद्घातः
*१. चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्बुधाः।
चतुर्थतरङ्गे उत्तमाधिकारिण उपदेशप्रकारो वर्णितः। पञ्चमतरङ्गे मध्यमाधिकारिण उपदेशप्रकारः कथितः। अस्मिंस्तु तरङ्गे कनिष्ठाधिकारिण उपदेशप्रकारो निरूप्यते। यस्य तु संशया बहवो जायन्ते स तीक्ष्णबुद्धिरपि कनिष्ठाधिकार्येव भवति। संशयो हि पापात्मा। “संशयात्मा विनश्यति’ (भ.गी. ४.४०) इति स्मृतिः। अस्य तरङ्गस्य युक्तिप्रधानत्वात् यस्य गुरुमुखाच्छ्रुतेऽपि वेदार्थे कुतर्का उपजायन्ते तस्यायं तरङ्ग उपयुज्यते। कुतर्कदग्धबुद्धिः कनिष्ठाधिकारी। तस्योपदेशप्रकारोऽस्मिन् तरङ्गे वर्ण्यते। पञ्चमे तरङ्गे प्रणवोपासनजगदुत्पत्त्यादिनिरूपणात् पूर्वमिदमुक्तम् चैतन्याद्भिन्नमज्ञानं तत्कार्यं चानात्मा। अनात्मपदार्थः सर्वोऽपि स्वप्नवन्मिथ्या इति। तमिमं गुरोरुपदेशं श्रुत्वा प्रश्नादुपरतौ ज्येष्ठौ भ्रातरौ दृष्ट्वा तर्कदृष्टिः पृच्छति –